SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां zy <s> बन्धतच्चे उत्तरप्रकृतिभेदाः॥ ॥१३६॥ <S <5-卐<s-卐> नरकगत्यादीनि नामान्युदयमायान्तीति आयुरनन्तरं नामग्रहणम् , नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदये चोच्चैः कुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयोपशमो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् , नीचैः-कुलोत्पन्नस्य प्रायो दानलाभाद्यन्तरायोदयो भवति नीचजातीनां तथादर्शनात्, तत एतदर्थप्रतिपच्यर्थ गोत्रानन्तरमन्तरायग्रहणमिति ॥ ३९ ॥ प्रकृतिबन्धनिरूपणं विधाय अथ स्थितिबन्धनिरूपणप्रसङ्गे प्रागुत्कृष्टस्थितिबन्धं निरूपयति;नाणे अदंसणावरणे, वेयणिए चेव अंतराए अ। तीसं कोडाकोडी, अयराणं ठिइ अ उक्कोसा॥४०॥ सित्तरि कोडाकोडी मोहणीए वीस नाम गोएसु । तित्तीसं अयराइं, आउट्टिइ बंध उक्कोसा॥४१॥ ___टीका;-पदैकदेशात्पदसमुदायस्यापि ग्रहणमिति न्यायेन ' नाणे' इति पदेन ज्ञानावरणीयस्य ग्रहणम् , अयमर्थःज्ञानावरणस्य दर्शनावरणस्य वेदनीयस्य अंतरायस्य च कर्मणः उत्कृष्टा स्थितिः त्रिंशत्कोटीकोटीसागरप्रमाणा, मोहनीयस्य सप्ततिकोटीकोटीसागरप्रमाणा, मोहनीयस्य विंशतिकोटीकोटीसागरप्रमाणा, आयुषश्चोत्कृष्टा स्थितिः त्रयस्त्रिंशत्सागरमाना । इति गाथाद्वयाक्षरार्थः । विस्तरार्थस्त्वयम् -आत्मना (कर्ता) परिगृहीतस्य कर्मपुद्गलराशेरात्मप्रदेशेष्ववस्थानं स्थितिः, विवक्षितबध्यमानलतामाश्रित्य बन्धकालमादौ कृत्वा यावत्कालं संक्रमोद्वर्त्तनापवर्त्तनादिव्याघाताऽभावे विवक्षितलतागतं दलिकमशेषं न जीर्ण भवति तावत्कालीना तल्लतायाः स्थितिरिति तात्पर्यम् । सा च जघन्योत्कृष्टभेदाभ्यां द्विविधा, तत्र तावदादौ उत्कृष्टां स्थितिमाह:-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यः, वर्ष 509- ॥१३६॥ <s
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy