________________
izs9>ys卐卐->卐
सहस्रत्रितयं चाऽऽबाधाकालः, बाधा( निषेक )कालस्तु वर्षसहस्रत्रितयन्यूनत्रिंशत्सागरोपमकोटीकोट्यः, यत्प्रभृति ज्ञानावरणीयादिकर्म उदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद् भवति, तच्च बन्धकालादारभ्य त्रिषु वर्षसहस्रेष्वतीतेषु उदयावलिकां प्रविशति सामान्यतः, स खल्वबाधाकालो यतस्तत्कर्म नानुभूयते तावन्तं कालमिति । एवं सर्वत्राप्यबाधाकालविषये स्वधिया परिभावनीयम् । इदमत्र हृदयम् :-इह द्विधा स्थितिः, कर्मरूपतावस्थानलक्षणाऽनुभवप्रायोग्या च । कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्य जघन्योत्कृष्टप्रमाणाभिधानमिदमवगन्तव्यम् । अनुभवप्रायोग्या पुनरवाधाकालहीना । येषां च कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधाकालः। तथा मोहनीयस्य सप्ततिसागरोपमकोटीकोव्य उत्कृष्टा स्थितिः, इदं च दर्शनमोहनीयमाश्रित्य विज्ञेयमन्यथा चारित्रमोहनीयस्य चत्वारिंशत्सागरोपकोटीकोट्यः, उभयोरपि दर्शनचारित्रमोहयोः क्रमेण सप्तसहस्रचतुस्सहस्रवर्षाण्यबाधाकालः। नामगोत्रयोविंशतिसागरोपमकोटीकोट्यः, वर्षसहस्रद्वयं चाबाधाकालः । आयुषः त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटीत्रिभागाऽभ्यधिकानि, पूर्वकोटीत्रिभागश्चाबाधाकालः । मूलप्रकृतीनामुत्कृष्टः स्थितिबन्ध उक्तः, इदानीमुत्तरप्रकृतिमाश्रित्य सैव उत्कृष्टचन्धो भाव्यतेः-तत्र ज्ञानावरणदर्शनावरणान्त
१ ननु शेषकर्मणामुत्कृष्टा स्थितिरबाधासहितैव सूत्रकारेण गणिता, कथमायुषोऽबाधा स्थितेर्भिन्ना प्रदर्यते ? सत्यम् ! सर्वत्र प्रायो ग्रन्थकारमहर्षेरेवंभूतैव विवक्षा दृश्यते, यथा 'त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य' ( तत्त्वा० अध्या०८-सू-१८) 'तेत्तीसुदही सुरनारयाउ सेसाउ पल्लतिगं' (कर्मप्रकृतिः गाथा ७३) तथापि तत्र तत्र टीकाकारपूज्यैरुत्कृष्टस्थित्या अबाघा पृथगुक्तेति नास्ति काचिद्विप्रतिपत्तिः ॥
my45204