Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 306
________________ izs9>ys卐卐->卐 सहस्रत्रितयं चाऽऽबाधाकालः, बाधा( निषेक )कालस्तु वर्षसहस्रत्रितयन्यूनत्रिंशत्सागरोपमकोटीकोट्यः, यत्प्रभृति ज्ञानावरणीयादिकर्म उदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद् भवति, तच्च बन्धकालादारभ्य त्रिषु वर्षसहस्रेष्वतीतेषु उदयावलिकां प्रविशति सामान्यतः, स खल्वबाधाकालो यतस्तत्कर्म नानुभूयते तावन्तं कालमिति । एवं सर्वत्राप्यबाधाकालविषये स्वधिया परिभावनीयम् । इदमत्र हृदयम् :-इह द्विधा स्थितिः, कर्मरूपतावस्थानलक्षणाऽनुभवप्रायोग्या च । कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्य जघन्योत्कृष्टप्रमाणाभिधानमिदमवगन्तव्यम् । अनुभवप्रायोग्या पुनरवाधाकालहीना । येषां च कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधाकालः। तथा मोहनीयस्य सप्ततिसागरोपमकोटीकोव्य उत्कृष्टा स्थितिः, इदं च दर्शनमोहनीयमाश्रित्य विज्ञेयमन्यथा चारित्रमोहनीयस्य चत्वारिंशत्सागरोपकोटीकोट्यः, उभयोरपि दर्शनचारित्रमोहयोः क्रमेण सप्तसहस्रचतुस्सहस्रवर्षाण्यबाधाकालः। नामगोत्रयोविंशतिसागरोपमकोटीकोट्यः, वर्षसहस्रद्वयं चाबाधाकालः । आयुषः त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटीत्रिभागाऽभ्यधिकानि, पूर्वकोटीत्रिभागश्चाबाधाकालः । मूलप्रकृतीनामुत्कृष्टः स्थितिबन्ध उक्तः, इदानीमुत्तरप्रकृतिमाश्रित्य सैव उत्कृष्टचन्धो भाव्यतेः-तत्र ज्ञानावरणदर्शनावरणान्त १ ननु शेषकर्मणामुत्कृष्टा स्थितिरबाधासहितैव सूत्रकारेण गणिता, कथमायुषोऽबाधा स्थितेर्भिन्ना प्रदर्यते ? सत्यम् ! सर्वत्र प्रायो ग्रन्थकारमहर्षेरेवंभूतैव विवक्षा दृश्यते, यथा 'त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य' ( तत्त्वा० अध्या०८-सू-१८) 'तेत्तीसुदही सुरनारयाउ सेसाउ पल्लतिगं' (कर्मप्रकृतिः गाथा ७३) तथापि तत्र तत्र टीकाकारपूज्यैरुत्कृष्टस्थित्या अबाघा पृथगुक्तेति नास्ति काचिद्विप्रतिपत्तिः ॥ my45204

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376