Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 304
________________ ७) 25s>卐 प्रकृतिवन्धो व्याख्यातः। ननु प्रथमं ज्ञानावरणं द्वितीयं दर्शनावरणं यावदष्टममन्तरायमितिक्रमस्सहेतुक उत निर्हेतुक ? उच्यते यद्यपि बन्धकालचिन्तामाश्रित्य तु प्रागुक्तरीत्या समकमेव सप्तानामष्टानां वा कर्मणां बन्धः नतु प्राग् ज्ञानावरणं ततो दर्शनावरणमन्तिममन्तरायश्चेति, तथापि सिद्धान्तसिद्धक्रमसाधनायेयं परिपाटी सहेतुका विधीयते । तत्र ज्ञानदर्शने जीवस्य स्वतत्वभृते, तयोरभावे जीवत्वस्यैवायोगात् , तयोर्ज्ञानदर्शनयोरपि च मध्ये ज्ञानं प्रधानं, ज्ञानोपयोगयुक्तस्यैव लब्धिप्राप्तेर्मोक्षावानेश्च, सकलशास्त्रादिविचारप्रवृत्तिरपि ज्ञानाधीना एव ततो ज्ञानं प्रधानं तदावारकं च ज्ञानावरणं कर्म यतस्तत्प्रथममुक्तं, तदनन्तरं च दर्शनावरणं, ज्ञानोपयोगाच्युतस्य दर्शनोपयोगेऽवस्थानात्, एते च ज्ञानदर्शनावरणे स्खविपाकमुपदर्शयन्ती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः, तथाहि;-ज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचाराऽसमर्थमात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमात् पाटवोपेतश्च सूक्ष्मतराणि वस्तूनि निजप्रज्ञयाभिजानानः बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते । तथातिनिबिडदर्शनावरणोदये जात्यन्धादिरनुभवति दुःखसन्दोहं वचनगोचरातिक्रान्तम् । दर्शनावरणक्षयोपशमसौष्ठवपरिकलितश्च स्पष्टचक्षुराद्युपेतो यथावद्वस्तुनिकुरम्बं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहं, तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानन्तरं वेदनीयग्रहणम् । वेदनीयं च सुखदुखे जनयति, सुखदुःखाबाप्तौ चावश्यं संसारिणां रागद्वेषौ तौ च मोहनीयहेतुकाविति वेदनीयानन्तरं मोहनीयम्। मोहनीयमूढाश्च जन्तवो बहारम्भपरिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति ततो मोहनीयानन्तरमायुग्रहणम् । नरकाद्यायुष्कोदये चावश्य 卐yz卐) - ->) -कर

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376