Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 309
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां॥१३८॥ बन्धतत्वे जघन्योत्कृष्टा|स्थितिः॥ zyg>ys->st गाथायां जघन्यस्थितिबन्धो मूलप्रकृतिमाश्रित्य प्रदर्शितः । अथोत्तरप्रकृतिमाश्रित्य जघन्यस्थितिबन्धः प्रदीते-पञ्चानां ज्ञानावरणप्रकृतीनां चक्षुरचक्षुरवधिकेवलदर्शनलक्षणदर्शनावरणचतुष्कस्य पञ्चानां चान्तरायप्रकृतीनां जघन्या स्थितिरन्तर्मु. हूर्त्तकालः, अबाधाप्यन्तमुहूर्तमेव । दर्शनावरणे निद्रापश्चकस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागाः (३) पल्योपमासंख्येयभागेन न्यूनाः । वेदनीये सातवेदनीयस्य जघन्या स्थिति दश मुहूर्ताः, अन्तमुहूर्त्तश्चाबाधाकालः। इह काषायिक्या एव स्थितेर्जघन्यत्त्वप्रतिपादनमभिप्रेतं, अतो द्वादश मुहर्ता इत्युक्तं, अन्यथा सातवेदनीयस्य जघन्या स्थितिः समयद्वयमात्रापि सयोगिकेवल्यादौ प्राप्यते । अशातावेदनीयस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागाः पल्योपमासंख्येयभागहीनाः । मोहनीयप्रकृतेः पल्योपमासंख्येयभागहीनः एकस्सागरोपमः, सवलनवर्जानां द्वादशकषायाणां चत्वारः सप्तभागाः पल्योपमासंख्येयभागहीनाः। पुरुषवेदवर्जानामष्टानां नोकषायाणां सागरोपमस्य द्वौ सप्तभागौ पल्यासंख्येयभागहीनौ । संज्वलनक्रोधस्य मासद्वयं, सञ्जवलनमानस्य मासः, सवलनमायाया अर्धमासः, सवलनलोभस्यान्तमुहूर्त जघन्या स्थितिः, अबाधा तु सर्वेषामन्तर्मुहूर्त्तम् । पुंवेदस्य जघन्यास्थितिरष्टौ वर्षाणि, अबाधा अन्तर्मुहूर्त्तकालः । देवनारकायुषां जघन्या स्थितिर्दश वर्षसहस्राणि, अबाधा अन्तर्मुहूर्तम् , जघन्यायुःस्थितिरुत्कृष्टाऽऽबाधासंज्ञकभङ्गापेक्षया पूर्वकोटित्रिभागोऽपि । तिर्यग्मनुष्यायुषां जघन्या स्थितिः क्षुल्लकभवग्रहणम् , अबाधा अन्तर्मुहूर्त्तकालः । देवद्विकनरकद्विकवैक्रियद्विकाहारकद्विकयश-कीर्तितीर्थकरवर्जशेषनामप्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ जघन्या स्थितिः, देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वीवैक्रियशरीरवैक्रियाङ्गोपाङ्गलक्षणस्य वैक्रियपदकस्य द्वौ सप्तभागौ सहस्रगुणितौ (२०००) पल्योपमासंख्येय ८)卐0) 卐-卐द ॥१३८॥

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376