Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 321
________________ 2 श्रीनवतत्त्व सुमङ्गलाटीकायां॥१४४॥ | मोक्षतत्वे सत्पदादिद्वाराणि ॥ >549- मित्येकं द्वारम् । तथा 'द्रव्यप्रमाणं' द्रव्याणां प्रस्तुतानां सिद्धाख्यानामेव प्रमाणं प्रमितिः तद् द्वितीयं द्वारम् । 'चः' समुच्चये, तथा क्षेत्रं ' इति, गाथानुकूल्यार्थमनुस्वारस्य लोपः, 'टुक्षि निवासे ' इतिवचनात् क्षियन्ति निवसन्त्यवगाहन्ते जीवद्रव्याणि यत्रेति क्षेत्रमाकाशम् , तच्च प्रस्तावात्सिद्धावगाहरूपं वाच्यम् , इदं तृतीयं द्वारम् । 'फुसणा य' इति स्पर्शना, 'च: समुच्चये, सिद्धानां स्पर्शना वाच्येति चतुर्थम् । क्षेत्रस्पर्शनयोश्चाऽयं विशेषः-यदवगाढं तत्क्षेत्रम् , यच्चानवगाढमपि स्पृष्टं तत्र स्पर्शना । तथा च परमाणुक्षेत्रस्पर्शनाविषये नियुक्तिकृतोक्तं-" एगपएसोगाढं सत्तपएसा य से फुसणा" इति । कालः साद्यपर्यवसितरूपः सिद्धानां वक्ष्यमाण इति पञ्चमं द्वारम् । ' अन्तरं, व्यवधानं, तच्च सिद्धानामस्ति नास्ति वेति प्ररूपणीयं तत्षष्ठम् । ततो भागद्वारं सप्तमं, कतिथे भागे शेषजीवानां सिद्धा इति । तथा भावः क्षायिकादिः, तन्मध्ये कस्मिन् भावे सिद्धा इत्यष्टमं द्वारम् । ' अल्पबहुत्त्वं चैव' पुंस्त्रीनपुंसकसिद्धापेक्षया तेषामल्पबहुत्त्वं चिन्त्यमिति नवममनुयोगद्वारमिति । अत्राऽयमाशयः-' चउदसचउदस' इति द्वितीयाथायां 'नव भेया कमेणेसिं' इति प्रतीकेन मोक्षस्य नव भेदा उक्ताः, यथा जीवाज्जीवादितत्त्वानां चतुर्दशप्रमुखा भेदाः प्राक् प्रतिपादितास्तथा न इमे नव भेदा भेदत्वेन युक्ताः, अत्र चनुयोगद्वाराण्येव भेदा विज्ञेया इति । न केवलं मोक्षस्यैवेमान्यनुयोगद्वाराणि, किन्तु यस्य कस्यचिदपि सद्भूतपदार्थस्यानन्तरोक्तानि सत्पदादिद्वाराणि व्याख्याङ्गानि । यथा शङ्कते परः-किं मोक्षोऽस्ति नास्ति वा ? यतोऽर्थापेक्षया विद्यमाना अपि शशविषाणवन्ध्यापुत्राकाशपुष्पप्रमुखाः शब्दा लोके प्रवर्त्तमाना दृष्टाः, वाच्यापेक्षया सद्भूता अपि घटपटाद्याः शब्दाः प्रवर्त्तमाना दृश्यन्ते, तत्किमयं मोक्षशब्दः सत्यर्थे उतासति प्रवृत्तः इति प्रश्नयति । आचार्य आह-अस्ति मोक्षः शुद्धपदत्त्वा 3ryyyyyy! y- > ॥१४४॥ <!

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376