Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 330
________________ z卐卐>ॐॐॐॐॐ>卐 अस्मिन् यथाप्रवृत्तकरणे स्थितिघातरसघातगुणश्रेणिगुणसंक्रमा न प्रवर्तन्ते, केवलमुक्तरूपा विशुद्धिरेव प्रतिसमयमनन्तगुणवृद्धिमती वर्तते, अत्र स्थितो यानि चाप्रशस्तानि कर्माणि बध्नाति तेषामनुभागं द्विस्थानकं बध्नाति, यानि च शुभानि बध्नाति तेषामनुभाग चतु:स्थानकं । स्थितिबन्धेऽपि च पूर्णे पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागहीनं करोति, अस्य यथाप्रवृत्तस्य पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणाभ्यां पूर्व प्रवृत्तत्त्वात् । एतदवस्थां यावदनाभोगतोऽभव्या अप्यनेकशः पूर्वोक्तरीत्या कर्मस्थितिहासं कृत्वा आगच्छन्ति परमपूर्वकरणे जायमानस्थितिरसघातादिभिर्निविडां रागद्वेषग्रन्थि न भिन्दन्ति, यतस्तेषां ग्रन्थिभेदयोग्याध्यवसायराहित्यं विद्यते, अत एव दर्शनमोहनीयस्य सर्वोपशमनाया अभावान्नौपशमिकसम्यक्त्वोपलम्भस्तेषाम् । तत्रैव च संख्येयमसंख्येयं वा कालं यावत्तिष्ठन्ति, तत्र स्थितः कश्चिदभव्यः चक्रिप्रमुखैर्निषेव्यमाण संयमगुणाभिरामं तपस्विनं महर्षि दृष्ट्वा 'अहमपीदृशं नेपथ्यं परिधायैतादर्श सन्मानं लभेयम्' इत्यैहिकसत्काराभिलापोपपन्नो द्रव्यचारित्रं प्रतिपद्य प्रतिलेखनाऽऽवश्यकादिक्रियानुष्ठानं सम्यग् विधत्ते, द्रव्यचारित्रमहिम्ना च स्वायुषः समाप्तेर्नवमं ग्रैवेयकं यावदुत्पद्यते, उक्तश्च पञ्चाशकमहाशास्त्रे-'सबजियाणं जम्हा सुत्ते गेविञ्जगेसु उववाओ । भणिओ जिणेहिं सो न य लिंगं मोत्तुं जओ भणियं ॥१॥ जे दंसणवावन्ना लिंगग्गहणं करिति सामन्ने । तेसि पि य उववाओ उक्कोसो जाव गेविञ्जा ॥ २॥' अपि च कश्चिदभव्याः श्रुतसामायिकलाभं समापन्नाः तत्रस्था एव नवमं पूर्व यावत् शब्दतोऽधीयते श्रुतम् । तथा चोक्तं-'तित्थंकराइपूअं दट्टणण्णेण वावि कजेण । सुयसामाइयलाहो होज अभव्वस्स गंठिम्मि ॥१॥' ' चउदस दस य अभिन्ने नियमा सम्मं तु सेसए भयणा' इत्यादि । पूर्वलब्ध्यभावे तेषामभव्यानां श्रुतमपि द्रव्यश्रुतमिति । ग्रन्थिदेश in卐95573055-

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376