________________
z卐卐>ॐॐॐॐॐ>卐
अस्मिन् यथाप्रवृत्तकरणे स्थितिघातरसघातगुणश्रेणिगुणसंक्रमा न प्रवर्तन्ते, केवलमुक्तरूपा विशुद्धिरेव प्रतिसमयमनन्तगुणवृद्धिमती वर्तते, अत्र स्थितो यानि चाप्रशस्तानि कर्माणि बध्नाति तेषामनुभागं द्विस्थानकं बध्नाति, यानि च शुभानि बध्नाति तेषामनुभाग चतु:स्थानकं । स्थितिबन्धेऽपि च पूर्णे पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागहीनं करोति, अस्य यथाप्रवृत्तस्य पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणाभ्यां पूर्व प्रवृत्तत्त्वात् । एतदवस्थां यावदनाभोगतोऽभव्या अप्यनेकशः पूर्वोक्तरीत्या कर्मस्थितिहासं कृत्वा आगच्छन्ति परमपूर्वकरणे जायमानस्थितिरसघातादिभिर्निविडां रागद्वेषग्रन्थि न भिन्दन्ति, यतस्तेषां ग्रन्थिभेदयोग्याध्यवसायराहित्यं विद्यते, अत एव दर्शनमोहनीयस्य सर्वोपशमनाया अभावान्नौपशमिकसम्यक्त्वोपलम्भस्तेषाम् । तत्रैव च संख्येयमसंख्येयं वा कालं यावत्तिष्ठन्ति, तत्र स्थितः कश्चिदभव्यः चक्रिप्रमुखैर्निषेव्यमाण संयमगुणाभिरामं तपस्विनं महर्षि दृष्ट्वा 'अहमपीदृशं नेपथ्यं परिधायैतादर्श सन्मानं लभेयम्' इत्यैहिकसत्काराभिलापोपपन्नो द्रव्यचारित्रं प्रतिपद्य प्रतिलेखनाऽऽवश्यकादिक्रियानुष्ठानं सम्यग् विधत्ते, द्रव्यचारित्रमहिम्ना च स्वायुषः समाप्तेर्नवमं ग्रैवेयकं यावदुत्पद्यते, उक्तश्च पञ्चाशकमहाशास्त्रे-'सबजियाणं जम्हा सुत्ते गेविञ्जगेसु उववाओ । भणिओ जिणेहिं सो न य लिंगं मोत्तुं जओ भणियं ॥१॥ जे दंसणवावन्ना लिंगग्गहणं करिति सामन्ने । तेसि पि य उववाओ उक्कोसो जाव गेविञ्जा ॥ २॥' अपि च कश्चिदभव्याः श्रुतसामायिकलाभं समापन्नाः तत्रस्था एव नवमं पूर्व यावत् शब्दतोऽधीयते श्रुतम् । तथा चोक्तं-'तित्थंकराइपूअं दट्टणण्णेण वावि कजेण । सुयसामाइयलाहो होज अभव्वस्स गंठिम्मि ॥१॥' ' चउदस दस य अभिन्ने नियमा सम्मं तु सेसए भयणा' इत्यादि । पूर्वलब्ध्यभावे तेषामभव्यानां श्रुतमपि द्रव्यश्रुतमिति । ग्रन्थिदेश
in卐95573055-