________________
2
श्रीनवतत्त्व सुमङ्गलाटीकायां॥१४४॥
| मोक्षतत्वे सत्पदादिद्वाराणि ॥
>549-
मित्येकं द्वारम् । तथा 'द्रव्यप्रमाणं' द्रव्याणां प्रस्तुतानां सिद्धाख्यानामेव प्रमाणं प्रमितिः तद् द्वितीयं द्वारम् । 'चः' समुच्चये, तथा क्षेत्रं ' इति, गाथानुकूल्यार्थमनुस्वारस्य लोपः, 'टुक्षि निवासे ' इतिवचनात् क्षियन्ति निवसन्त्यवगाहन्ते जीवद्रव्याणि यत्रेति क्षेत्रमाकाशम् , तच्च प्रस्तावात्सिद्धावगाहरूपं वाच्यम् , इदं तृतीयं द्वारम् । 'फुसणा य' इति स्पर्शना, 'च: समुच्चये, सिद्धानां स्पर्शना वाच्येति चतुर्थम् । क्षेत्रस्पर्शनयोश्चाऽयं विशेषः-यदवगाढं तत्क्षेत्रम् , यच्चानवगाढमपि स्पृष्टं तत्र स्पर्शना । तथा च परमाणुक्षेत्रस्पर्शनाविषये नियुक्तिकृतोक्तं-" एगपएसोगाढं सत्तपएसा य से फुसणा" इति । कालः साद्यपर्यवसितरूपः सिद्धानां वक्ष्यमाण इति पञ्चमं द्वारम् । ' अन्तरं, व्यवधानं, तच्च सिद्धानामस्ति नास्ति वेति प्ररूपणीयं तत्षष्ठम् । ततो भागद्वारं सप्तमं, कतिथे भागे शेषजीवानां सिद्धा इति । तथा भावः क्षायिकादिः, तन्मध्ये कस्मिन् भावे सिद्धा इत्यष्टमं द्वारम् । ' अल्पबहुत्त्वं चैव' पुंस्त्रीनपुंसकसिद्धापेक्षया तेषामल्पबहुत्त्वं चिन्त्यमिति नवममनुयोगद्वारमिति । अत्राऽयमाशयः-' चउदसचउदस' इति द्वितीयाथायां 'नव भेया कमेणेसिं' इति प्रतीकेन मोक्षस्य नव भेदा उक्ताः, यथा जीवाज्जीवादितत्त्वानां चतुर्दशप्रमुखा भेदाः प्राक् प्रतिपादितास्तथा न इमे नव भेदा भेदत्वेन युक्ताः, अत्र चनुयोगद्वाराण्येव भेदा विज्ञेया इति । न केवलं मोक्षस्यैवेमान्यनुयोगद्वाराणि, किन्तु यस्य कस्यचिदपि सद्भूतपदार्थस्यानन्तरोक्तानि सत्पदादिद्वाराणि व्याख्याङ्गानि । यथा शङ्कते परः-किं मोक्षोऽस्ति नास्ति वा ? यतोऽर्थापेक्षया विद्यमाना अपि शशविषाणवन्ध्यापुत्राकाशपुष्पप्रमुखाः शब्दा लोके प्रवर्त्तमाना दृष्टाः, वाच्यापेक्षया सद्भूता अपि घटपटाद्याः शब्दाः प्रवर्त्तमाना दृश्यन्ते, तत्किमयं मोक्षशब्दः सत्यर्थे उतासति प्रवृत्तः इति प्रश्नयति । आचार्य आह-अस्ति मोक्षः शुद्धपदत्त्वा
3ryyyyyy!
y-
>
॥१४४॥
<!