SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ 09 zyg > - दाप्तोपदेशाच्चेत्यादिवक्ष्यमाणरीत्या नवानामप्यनुयोगद्वाराणां व्याख्यानं कर्त्तव्यमिति। श्रीमदुमास्वातिवाचकवरेण्यैरपि तत्त्वार्थसूत्रे तद्भाष्ये चैवं न्यगादि-सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्त्वैश्च' (१-८) सत्, संख्या, क्षेत्रं, स्पर्शनं, कालः, अन्तरं, भावः, अल्पबहुत्त्वमित्येतैश्च सद्भूतप्ररूपणादिभिरष्टाभिरनुयोगद्वारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति । कथमिति चेदुच्यते-सत् , सम्यग्दर्शन किमस्ति नास्ति ? अस्तीत्युच्यते । क्वास्तीति चेत् , उच्यते-अजीवेषु तावन्नास्ति, जीवेषु तु भाज्यम् । तद्यथा-गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासम्भवं सद्भुतप्ररूपणा कर्त्तव्येति (त. भाष्यम् . अ. १. सू०८)। एवं मोक्षविषया प्ररूपणा नवभिरनुयोगद्वारैः कर्त्तव्येति ॥ ४३॥ अथ प्रत्येकमनुयोगद्वारमधिकृत्य मोक्षतत्त्वं विव्रीयतेसंतं सुद्धपयत्ता, विजंतं खकुसुमव न असंतं । मुक्खत्ति पयं तस्स उ, परूवणा मग्गणाईहिं॥४४॥ टीका;-'संत' इति, अस्तीति सन् तस्य भावः सत्ता, कस्य ? मोक्षपदवाच्यस्य, कस्मात् ? शुद्धपदत्त्वात् मोक्षस्येति, शुद्धश्च तत्पदं शुद्धपदं तस्य भावः तस्मादसंयुक्तपदत्वादसमस्तपदवादित्यर्थः । इदमत्र हृदयं-इह यानि घटपटादीनि शुद्धपदानि तत्तत्पदवाच्यान्यप्यवश्यं भवन्ति, यथा पृथुबुध्नाकृतिर्जलधारणादिक्रियासमर्थः द्रव्यविशेषो घटपदवाच्यः, एवमन्येष्वपि १ तत्त्वार्थे यदष्टानुयोगद्वाराणि तत्र भागद्वारस्य संख्यायामन्तर्भावो विज्ञायते । s z903- - >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy