________________
z
श्रीनवतत्त्वसुमङ्गलाटीकायां
| मोक्षतत्त्वे
सत्पदद्वारम् ॥
॥१४५॥
卐र卐卐<-5><
शुद्धपदेषु विज्ञेयम् । यानि चाऽन्यपदसंयोगात्समस्तपदानि खपुष्पशशविषाणवन्ध्यापुत्रराजपुरुषप्रमुखानि तत्तत्पदवाच्यानि विकल्पेन भवन्ति । समस्तपदेषु खपदवाच्यमवगाहप्रदस्वभावमाकाशं वर्तते, पुष्पपदवाच्यं च सुगन्धगुणमयं कुसुमं भवति, परं खस्य पुष्पस्य च यदा राजपुरुषादिवल्लक्षणया समासो विधीयते तदा खपुष्पमितिपदस्य वाच्याऽभावः । न च खपुष्पमित्यखण्डपदस्याऽवयवभूतयोः खपुष्पयोर्वाच्यसद्भावेऽवयविनः खपुष्पमितिपदस्याऽपि वाच्येन भवितव्यमिति शङ्कनीयम् , यतो 'राजपुरुष' इत्याद्यखण्डपदेषु राजविशिष्टः पुरुष इति राजपदस्य पुरुषपदे विशेषणात्मकलक्षणया सम्यगर्थसङ्गतिर्भवति, परं खपुष्पमित्यादिपदेषु खे जातं पुष्पं खस्य पुष्पं वेति विग्रहे विशेषणात्मकलक्षणाया अभावादर्थसाङ्गत्याभावः । न चाऽवयविनोऽर्थसङ्गतेरभावादवयवभूतयोः खपुष्पयोरपि नार्थसङ्गतिरिति वाच्यम् , यतोऽवयवभूतयोरपि खपुष्पयोः 'राजन् डन्स् पुरुष सु' इत्याद्यलौकिकविग्रहवाक्यवत् ‘ख डस् पुष्प सु' इत्यत्र 'सुपो धातुप्रातिपदिकयोः (पा० अ०२, पा०४, सू०७१.) इति सूत्रेण सत्यपि लुकि पदसंज्ञायै स्थानिवद्भावो भवत्येव, अन्यथा 'राजपुरुषः' इत्यादौ ‘नलोपः प्रातिपदिकान्तस्य' इत्यनेन नलोपो न स्यात् , अत्र तु समासापेक्षया पदत्त्वे सत्यपि लक्षणाया अभावाद्वाच्याऽभाव इति । तस्मादवयविनो वाच्याऽभावेऽपि खपुष्पयोरवयवभूतयोः पृथक् पृथक् पदसंज्ञायाः सद्भावात् तत्पदवाच्यसद्भावे न काचिद्विप्रतिपत्तिः । एवं शशविषाणवन्ध्यापुत्रप्रभृतिशब्देष्वपि विज्ञेयम् । राजपुरुषाचार्यशिष्यादिषु शब्देषु समासस्य सद्भावेऽपि पूर्वोक्तप्रकारेणार्थसङ्गतेस्सद्भावात् तत्तत्पदवाच्यान्यपि भवन्तीति समस्तपदेषु विकल्पेन वाच्यसद्भावः । अमुमेवाऽर्थ सूत्रकारमहर्षिर्गाथायां प्रदर्शयति-'मुक्खत्ति पयं' इति, मोक्ष इति पदं
32935zs093-
॥१४५॥