________________
2
शुद्धपदत्त्वात् वाच्यवद्विद्यते, परं 'खकुसुमव न असंत' खपुष्पमिव न वाच्याऽभाववदिति । एवं मोक्षपदवाच्यस्य सत्तानिश्चये जाते शिष्यः प्रश्नयति यदि मोक्षपदवाच्यस्य पूर्वोक्तप्रकारेण सत्ता प्रतीयते तर्हि व सत्तासद्भावः ? उच्यते-'तस्स उ परूवणा मग्गणाईहिं' गत्यादिमार्गणाद्वारेण तस्य मोक्षस्य प्ररूपणा कर्त्तव्येति ॥४४॥
। एतदेव प्रदर्शनार्थ मार्गणा वक्तुं प्रक्रमतेगइइंदिये काए, जोए वेए कसायनाणे य । संजमदंसणलेसा, भवसम्मे सन्नि आहारे ॥४५॥
टीका:-गम्यते तथाविधकर्मसचिवै वैः प्राप्यत इति गति रकत्वादिपर्यायपरिणतिः । इन्दनादिन्द्र आत्मा ज्ञानेश्वर्ययोगात् तस्येदमिन्द्रियं । ततो गतिश्चेन्द्रियं चाऽनयोस्समाहारः गतीन्द्रियं तस्मिन् गतीन्द्रिये, एवमन्यत्रापि यथायोगं समाहारद्वन्द्वः कार्यः। 'चः' समुच्चये। चीयते यथायोगमौदारिकादिमार्गणागणैरुपचयं नीयत इति कायः । युज्यते धावनवल्गनादिचेष्टास्वात्मानेनेति योगः। वेद्यतेऽनुभूयते इन्द्रियोद्भुतं सुखमनेनेति वेदः । कष्यन्ते हिंस्यन्ते परस्परमस्मिन् | प्राणिन इति कषः संसारः, कपमयन्ते गच्छन्त्येभिजन्तव इति कषायाः, यद्वा कपस्यायो लाभो येभ्यस्ते कषायाः। ज्ञप्तिर्ज्ञानं, यद्वा ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञान समान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः। संयमनं सम्यगुपरमण सावद्ययोगादिति संयमः, यदा संयम्यते नियम्यत आत्मा पापव्यापारसंभारादनेनेति संयमः, यदि वा शोभना यमाः प्राणातिपातानृतभाषणादत्तादानाब्रह्मपरिग्रहविरमणलक्षणा अस्मिन्निति संयमश्चारित्रम् । दृश्यते विलोक्यते वस्त्वनेनेति दर्शनं, यद्वा दृष्टिदशनं सामान्यविशेषात्मके वस्तुनि सामान्यात्मको बोध इत्यर्थः । लिश्यते श्लिश्यते कर्मणा
050
>5卐-卐卐>)
-5