SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ N श्रीनवतत्त्व सुमङ्गलाटीकायां मोक्षतत्त्वे गत्यादिमार्गणाः॥ ॥१४६॥ सहात्माऽनयेति लेश्या । भवति परमपदयोग्यतामासादयतीति भव्यः सिद्धिगमनयोग्यः । 'सम्म त्ति' सम्यक्शब्दः प्रशंसार्थोऽविरुद्धार्थो वा सम्यग्जीवस्तद्भावः सम्यक्त्वं प्रशस्तो मोक्षाविरोधी वा प्रशमसंवेगादिलक्षण आत्मधर्म इति यावत् । यदाहुः श्रीभद्रबाहुस्वामिपादाः-'सेय सम्मत्ते पसस्थसंमत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थ पसमसंवेगाइलिंगे सुहे आयपरिणामे।' इत्यादि । संज्ञानं संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते संज्ञिनः, विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपश्चकसमन्विता इत्यर्थः। ओजआहारलोमाहारकवलाहाराणामन्यतममाहारमाहारयतीत्याहारकः, ओजआहारादीनां लक्षणमिदं-" सरीरेणोयाहारो, तयाइ फासेण लोम आहारो । परकेवाहारो पुण कावलिओ होइ नायब्वो ॥१॥ इति मूलभूतानि चतुर्दशमार्गणास्थानानि ॥ इदानीमेतेषामेव मूलमार्गणास्थानानामुत्तरभेदा भाव्यन्ते-तत्र सुरनरतिर्यनरकगतिभेदैर्गतिश्चतुर्धा । तत्र सुष्टु राजन्ते इति यदि वा सुष्टु राजन्ति ददति प्रणतानभीप्सितार्थ लवणाधिपसुस्थित इव लवणजलधौ मार्ग जनार्दनस्येति सुराः, यद्वा 'सुर' ऐश्वर्यदीप्त्योः' सुरन्ति विशिष्टमैश्वर्यमनुभवन्ति दिव्याभरणसंभारसमृद्ध्या सहजनिजशरीरकान्त्या च दीप्यन्त इति सुराः, सुरेषु विषये गतिः सुरगतिः१ । नृणन्ति विवेकमासाद्य नयधर्मपरा भवन्तीति नरा मनुष्यास्तेषु विषये गतिर्नरगतिः २ । 'तिरि त्ति' प्राकृतत्त्वात्तिरोऽश्चन्ति गच्छन्ति तिर्यश्चः, व्युत्पत्तिनिमित्तश्चैतत् , प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, | ततस्तिर्यक्षु विषये गतिस्तिर्यग्गतिः ३ । नरानुपलक्षणत्वात्तिरश्चोऽपि प्रभूतपापकारिणः कायन्तीवाह्वयन्तीवेति नरका नरकावासास्तत्रोत्पन्ना जन्तवोऽपि नरकाः, तेषु विषये गतिर्नरकगतिः ४ । एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियभेदै 59z卐0卐卐 ॥१४६॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy