________________
2
'
>y
s
-
रिन्द्रियमार्गणा पञ्चविधेति । पृथ्वीकायाप्कायतेजस्कायवायुकायवनस्पतिकायत्रसकायभेदात्कायमार्गणा षड्विधा । योगमार्गणा त्रिविधा, तथाहि-मनोयोगः, वचनयोगः, तनुयोगः। तत्र तनुयोगेन मनःप्रायोग्यवर्गणाभ्यो गृहीचा मनोयोगेन मनस्त्वेन परिणतानि वस्तुचिन्ताप्रवर्तकानि द्रव्याणि मन इत्युच्यन्ते, तेन मनसा सहकारिकारणभूतेन योगो मनोयोगः, मनोविषयो यो योगो मनोयोगः । उच्यत इति वचनं भाषापरिणामापनपुद्गलद्रव्यसमूह इत्यर्थः, तेन वचनेन सहकारिकारणभूतेन योगो वचनयोगः, वचनविषयो वा योगो वचनयोगः। तनोति विस्तारयत्यात्मप्रदेशानस्यामिति तनुरौदारिकादिशरीरं, तया सहकारिकारणभूतया योगस्तनुयोगः तनुविषयो वा योगस्तनुयोग इति । वेदमार्गणा पुंस्त्रीनपुंसकभेदैस्त्रिविधा, तत्र पुंसः स्त्रियं प्रत्यभिलाषः पुंवेदः, स्त्रियः पुरुषं प्रत्यभिलाषः स्त्रीवेदः, नपुंसकस्य स्त्रीपुरुषौ प्रत्यभिलाषो नपुंसकवेद इति । कषायमार्गणा चतुर्भेदभिन्ना, तथाहि-क्रोधोऽप्रीतिलक्षणः, मानो नम्रताऽभावस्वभावः, माया आर्जवराहित्यात्मिका, लोभस्संतोषाऽभावस्वरूपः। ज्ञानमार्गणा पश्चज्ञानयज्ञानविधानेनाष्टविधा-तत्र पञ्चज्ञानस्वरूपं पापतत्वे किश्चित्प्रतिपादितम् , तत्रोक्तानि मतिश्रुतावधिज्ञानान्येव मिथ्याचपङ्ककलुपिततया यथाक्रमं मत्यज्ञानश्रुताज्ञानविभंगज्ञानव्यपदेशभांजि भवन्ति । उक्तं च-'आद्यत्रयमज्ञानमपि भवति मिथ्याचसंयुक्तमिति ।' विपरीतो भंगः परिच्छित्तिप्रकारो यस्मिंस्तद्विभङ्गः, विपर्यस्तमवधिज्ञानं विभङ्गज्ञानमुच्यत इत्यर्थः। एतेष्टावपि ज्ञानाऽज्ञानानि साकाराणि । तथाहि-सामान्यविशेषात्मकं हि सकलं ज्ञेयं वस्तु, कथमिति चेदुच्यते, दूरादेव हि शालतमालतालबकुलाशोकचंपककदंबजंबुनिवादिविशिष्टव्यक्तिरूपतयानवधारितं तरुनिकरमवलोकयतः सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तत्सामान्यरूपमनाकारं दर्शनमुच्यते, 'निर्विशेषो विशे
-
>
!