________________
2$
मोक्षतत्त्वे
श्रीनवतत्त्वसुमङ्गलाटीकायां
गत्यादि
$>
मार्गणाः॥
॥१४७॥
<-
पाणां ग्रहो दर्शनमुच्यते ' इति वचनप्रामाण्यात् । यत्पुनस्तस्यैव निकटीभूतस्य तालतमालशालादिव्यक्तिरूपतयावधारित तमेव महीरुहसमूहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनक परिस्फुटं रूपमाभाति तद्विशेषरूपं साकारं ज्ञानमप्रमेयप्रभावपरमेश्वरप्रवचनप्रवीणचेतस्काः प्रतिपादयन्ति, सह विशिष्टाकारेण वर्तत इति कृत्वा । वक्ष्यमाणानि चक्षुरादिदर्शनानि विशिष्टाकारप्रतीत्यभावादनाकाराणि, तदेवं प्रतिप्राणि प्रसिद्धप्रमाणाबाधितप्रतीतिवशात् सर्वमपि वस्तुजातं सामान्यविशेषरूपद्वयात्मकं भावनीयमिति । इदानीं संयममार्गणा, सा च सामायिकछेदोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातदेशविरत्यविरतिप्रकारैस्सप्तधा, तत्र सामायिकादि यथाख्यातान्तं चारित्रं संवरतत्त्वे सम्यग्भावितं । देशविरत्यविरती चाधुना भाव्यते-देशे संकल्पतो निरपराधत्रसवधविषये विरतिर्विरमणं यस्यां सा देशविरतिः, तद्वान् देशविरतः, स च सम्यद्गर्शनयुत एकाणुव्रतादिधारी व्यणुव्रतधारी तावद्वाच्यो यावच्चरमोऽनुमतिमात्र: परिपूर्णद्वादशव्रतधारी प्रत्याख्यातसकलसावद्यकर्मा केवलमनुमतिमात्रप्रतिसेवकः । अनुमतिरपि त्रिधा-प्रतिसेवनानुमतिः प्रतिश्रवणानुमतिः संवासानुमतिश्च । तत्र यः स्वयं परैर्वा कृतं पापं श्लाघते सावद्यारम्भनिष्पादितं वाऽशनाद्युपभुङ्क्ते तस्य प्रतिसेवनानुमतिः । यदा तु पुत्रादिभिः कृतं पापं श्रृणोति श्रुत्वा चाऽनुमन्यते न च प्रतिषेधति तदा प्रतिश्रवणानुमतिः। यदा तु सावद्यारम्भप्रवृत्तेषु पुत्रादिषु केवलं ममत्वमात्रयुक्तो भवति नान्यत् किश्चित्प्रतिश्रुणोति श्लाघते वा तदा संवासानुमतिः। तत्र यः संवासानुमतिमात्रमेव सेवते स चरमो देशविरतः, स च सर्वश्रावकाणां मध्ये गुणोत्तमः। यरतु संवासानुमतेरपि विरतो भवति स यतिरित्युच्यत इति । न विद्यते विरतिः पूर्वोक्ता देशसर्वभेदभिन्ना यस्य सोऽविरतिस्तद्गतस्संयमोऽप्यविरतिसंयम इति सप्तधा संयममार्गणा ॥ अथ दर्शनमार्गणा, सा च चतुर्विधा पूर्वव्याख्यातचक्षुदर्श
10卐३zs0卐s-se
y-
>
॥१४७॥
<!