________________
zs
ह
><s卐5-5>y!
नाऽचक्षुर्दर्शनाऽवधिदर्शनकेवलदर्शनभेदैः। लेश्या मार्गणा कृष्णनीलकापोततेजःपद्मशुक्लभेदैः षड्विधा,पदविधत्त्वं चासां जम्बूफलभक्षकग्रामलुण्टकष्टपुरुषदृष्टान्ताभ्यां भावितम् । भव्यो मुक्तिगमनार्हः, इतरोऽभव्यः कदाचनाऽपि सिद्धिगमनानः,तयोर्मार्गणा भव्यमार्गणा । सम्यक्त्वमार्गणा पविधा औपशमिकक्षायोपशमिकक्षायिकमिश्रसास्वादनमिथ्यात्वप्रकारैः । तत्स्वरूपं चेदं
सम्यक्त्वं दर्शनमोहनीयस्य सर्वोपशमनेन देशोपशमनपर्यायक्षयोपशमेन क्षयेण चौपशमिकक्षायोपशमिकक्षायिकसंज्ञंक्रमण सञ्जायते । इह सर्वोपशमना मोहस्यैव, शेषाणां तु कर्मणां देशोपशमना भवति । तत्र गंभीरा पारसंसारसागरमध्यमध्यासीनो जन्तुर्मिथ्याचप्रत्ययमनन्तान् पुद्गलपरावर्तान् यावदनन्तदुःरकलक्षाण्यनुभूय कथमपि तथा भव्यत्त्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनाभोगेन पञ्चेन्द्रियत्त्वसंज्ञित्वलब्धिपर्याप्तत्त्वरूपेणौदयिकभाववर्तिलब्धित्रिकेण युक्तः, पूर्वमपि करणकालाद् अन्तर्मुहृत्तं कालं यावत्प्रतिसमयमनन्तगुणवृद्धविशुद्ध्या विशुध्यमानो ग्रन्थिकसत्त्वानामभव्यसिद्धिकानां शोधिमतिक्रम्य वर्तमानः, तथा साकारोपयोगे विशुद्धलेश्यायां च वर्तमानः, तथाऽऽयुर्वर्जानां सप्तानां कर्मणां स्थितिमन्तःसागरोपमकोटाकोटिप्रमाणां कृत्त्वाऽशुभानां कर्मणामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं कुर्वन शुभानां च कर्मणां द्विस्थानकं सन्तमनुभागं चतुःस्थानकं कुर्वाणः, तथा बध्यमानप्रकृतीनां स्थितिमन्तःसागरोपमकोटाकोटिप्रमाणामेव बघ्ननाधिका, तथा स्थितिबन्धे पूर्णे सत्यन्यं स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्षया पल्योपमसङ्खथयभागन्यूनं कुर्वन् तस्मिन्नपि पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागन्यूनं कुर्वन् , एवमन्यमन्यं स्थितिबन्धं पूर्वापेक्षया पल्योपमसंख्येयभागन्यूनं कुर्वन् , अशुभानां च प्रकृतीनां बध्यमानानामनुभागं द्विस्थानकं बध्नस्तमपि प्रतिसमयमनन्तगुणहीनं शुभानां च चतुःस्थानकं बघ्नस्तमपि प्रति
yz90<s-भर