________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१३८॥
बन्धतत्वे जघन्योत्कृष्टा|स्थितिः॥
zyg>ys->st
गाथायां जघन्यस्थितिबन्धो मूलप्रकृतिमाश्रित्य प्रदर्शितः । अथोत्तरप्रकृतिमाश्रित्य जघन्यस्थितिबन्धः प्रदीते-पञ्चानां ज्ञानावरणप्रकृतीनां चक्षुरचक्षुरवधिकेवलदर्शनलक्षणदर्शनावरणचतुष्कस्य पञ्चानां चान्तरायप्रकृतीनां जघन्या स्थितिरन्तर्मु. हूर्त्तकालः, अबाधाप्यन्तमुहूर्तमेव । दर्शनावरणे निद्रापश्चकस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागाः (३) पल्योपमासंख्येयभागेन न्यूनाः । वेदनीये सातवेदनीयस्य जघन्या स्थिति दश मुहूर्ताः, अन्तमुहूर्त्तश्चाबाधाकालः। इह काषायिक्या एव स्थितेर्जघन्यत्त्वप्रतिपादनमभिप्रेतं, अतो द्वादश मुहर्ता इत्युक्तं, अन्यथा सातवेदनीयस्य जघन्या स्थितिः समयद्वयमात्रापि सयोगिकेवल्यादौ प्राप्यते । अशातावेदनीयस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागाः पल्योपमासंख्येयभागहीनाः । मोहनीयप्रकृतेः पल्योपमासंख्येयभागहीनः एकस्सागरोपमः, सवलनवर्जानां द्वादशकषायाणां चत्वारः सप्तभागाः पल्योपमासंख्येयभागहीनाः। पुरुषवेदवर्जानामष्टानां नोकषायाणां सागरोपमस्य द्वौ सप्तभागौ पल्यासंख्येयभागहीनौ । संज्वलनक्रोधस्य मासद्वयं, सञ्जवलनमानस्य मासः, सवलनमायाया अर्धमासः, सवलनलोभस्यान्तमुहूर्त जघन्या स्थितिः, अबाधा तु सर्वेषामन्तर्मुहूर्त्तम् । पुंवेदस्य जघन्यास्थितिरष्टौ वर्षाणि, अबाधा अन्तर्मुहूर्त्तकालः । देवनारकायुषां जघन्या स्थितिर्दश वर्षसहस्राणि, अबाधा अन्तर्मुहूर्तम् , जघन्यायुःस्थितिरुत्कृष्टाऽऽबाधासंज्ञकभङ्गापेक्षया पूर्वकोटित्रिभागोऽपि । तिर्यग्मनुष्यायुषां जघन्या स्थितिः क्षुल्लकभवग्रहणम् , अबाधा अन्तर्मुहूर्त्तकालः । देवद्विकनरकद्विकवैक्रियद्विकाहारकद्विकयश-कीर्तितीर्थकरवर्जशेषनामप्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ जघन्या स्थितिः, देवगतिदेवानुपूर्वीनरकगतिनरकानुपूर्वीवैक्रियशरीरवैक्रियाङ्गोपाङ्गलक्षणस्य वैक्रियपदकस्य द्वौ सप्तभागौ सहस्रगुणितौ (२०००) पल्योपमासंख्येय
८)卐0)
卐-卐द
॥१३८॥