________________
253
>
परा स्थितिः वर्षसहस्रद्वयं चाबाधा ॥ ___आयुःकर्मणि देवायुषः परा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि, अबाधायां पूर्वकोटित्रिभाग उत्कर्षेण, जघन्याचाधा त्वन्तमुहर्तम् , यत आयुषोऽबाधायां चतुर्भङ्गाः, उत्कृष्टा स्थितिरुत्कृष्टाबाधा, उत्कृष्टास्थितिजघन्याबाधा, जघन्यास्थितिरुत्कृष्टाबाधा, जघन्या स्थितिश्च जघन्याबाधा । तत्र पूर्वकोट्यायुष्को मनुष्यः त्रिभागावशेषे आयुषि आगामिदेवभवायुषमुत्कृष्टस्थितिकं यदा बध्नाति तदा प्रथमो भङ्गः, स एव जघन्यमध्यमायुष्को वा मनुजोऽन्तर्मुहूर्तावशेषे आयुषि आगामिदेवभवायुषमुत्कृष्टस्थितिकं बध्नाति तदा द्वितीयो भङ्गः । पूर्वकोट्यायुष्को मनुजो यदा पूर्वकोटित्रिभागावशेषे निजायुषि दशसहस्रप्रमाणं जघन्यस्थितिकं देवायुर्वघ्नीते तदा देवायुषमपेक्ष्य तृतीयो भङ्गः। जघन्यायुष्कोऽन्तर्मुहूर्तावशेषे निजायुषि दशवर्षसहस्रमानं देवायुषं बध्नाति तदा जघन्यस्थितिर्जघन्याबाधासंज्ञकश्चतुर्थो भङ्गकः । एवं शेषाणामप्यायुषामबाधाविषयः स्वधिया परिभावनीयः । मनुजायुषः परास्थिति त्रिपल्योपममाना, तिर्यगायुषोऽप्येवमेव, नारकायुषस्त्रयस्त्रिंशत् सागरोपमाणि । इत्युत्कृष्टस्थितिवन्धः॥४०॥४१॥ उत्कृष्टस्थितिबन्धानन्तरं जघन्यस्थितिवन्धं भावयविः
बारस मुहत्त जहन्ना वेयणिए अट्ट नाम गोएसु । सेसाणंतमहत्तं एयं बंधट्रिईमाणं ॥ ४२॥ टीका;-'बारस' इति, द्वादशमुहूर्तानि जघन्या स्थितिः, कस्य कर्मणः ? वेदनीयस्य शातावेदनीयस्येत्यर्थः । अष्टौ मुहूर्त्तानि नामगोत्रयोजघन्या स्थितिः, शेषाणां ज्ञानावरणदर्शनावरणमोहनीयाऽऽयुरन्तरायाणां जघन्या स्थितिरन्तर्मुहूर्त्तमिति । 'एयं' इति, एतत् प्राग् नाणेत्यादिगाथाद्वये व्याख्यातमिदं च जधन्योत्कृष्टभेदभिन्नं कर्मणां चन्धस्थितिमानम् । अस्यां
03979095-!
-卐
->