________________
2
ins
5
-
-9
भागहीनौ जघन्या स्थितिः, अबाधाकालोऽन्तर्मुहूर्तः, यतस्तस्य वैक्रियषट्कस्य जघन्यस्थितिबन्धका असंज्ञिपञ्चेन्द्रियास्तेच जधन्यां स्थितिमेतावतीमेव बध्नन्ति, न न्यूनां। तदुक्तं-"वेउवियछक्के तं सहस्सताडियं जं असण्णिणो तेसिं । पलियासंखंसूणं ठिड़ अबाहूणियनिसेगो ॥१॥" आहारकशरीराऽऽहारकाङ्गोपाङ्गतीर्थकरनाम्नां योत्कृष्टा स्थितिः प्रागुक्ताऽन्तःसागरोपम कोटीकोटीप्रमाणा सा संख्येयगुणहीना जघन्या स्थितिर्भवति, सापि चान्तःसागरोपमकोटीकोटीप्रमाणैव, अबाधा त्वन्तर्मुहूतम् , यश-कीर्तेर्जघन्या स्थितिरष्टौ मुहूर्ताः, अबाधात्वन्तर्मुहूर्त्तकालीना गोत्रकर्मणि नीचैर्गोत्रस्य सागरोपमस्य द्वौ. सप्तभागी जघन्या स्थितिरन्तर्मुहूर्तमबाधा, उच्चैर्गोत्रस्य चाष्टौ मुहूर्ताः, अबाधा अन्तर्मुहूर्तप्रमाणा । इति जघन्यस्थितिबन्धः।
अत्र पञ्चसंग्रहप्रज्ञापनादिग्रन्थेषु जघन्यस्थितिबन्धे किश्चिन्मतान्तरम् , यतोऽत्र प्राग्व्याख्याते जघन्यस्थितिबन्धे कर्मकल्मषविवेकप्रवणैः श्रीमच्छिवशर्मसूरिवरैः कर्मप्रकृत्यां यदुक्तं ' वग्गुक्कोस ठिईणं' इत्यादि, तस्याधारेण जघन्यस्थितिबन्धः प्रदर्शितः, तत्र ज्ञानावरणप्रकृतिसमुदायो ज्ञानावरणीयवर्गः। दर्शनावरणप्रकृतिसमुदायो दर्शनावरणीयवर्गः। वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः । दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्गः, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्रमोनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः। नामप्रकृतिसमुदायो नामवर्गः । गोत्रप्रकृतिसमुदायो गोत्रवर्गः। अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः । एतेषां वर्गाणां याऽऽत्मीयात्मीयोत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यादिलक्षणा, तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीलक्षणया भागे हृते सति यल्लभ्यते तत्पल्योपमासंख्येयभागन्यून सदुक्तशेषाणां प्रकृतीनां जघन्यस्थितेः परिमाणमवसेयमिति । एतन्मतानुसारेणात्र जघन्यास्थिति विता ।
<250
-
>
-
२४
<!