________________
.
z
>y
श्रीनवतत्त्व सुमङ्गलाटीकायां
बन्धतत्वे स्थितिबन्ध प्रत्ययाः॥
3
<
॥१३९॥
>卐
-卐
पञ्चसङ्घहे तु स्वस्वोत्कृष्टस्थितेर्मिथ्यात्त्वस्योत्कृष्टया स्थित्या भागे हृते सति यल्लभ्यते तत्पल्योपमासंख्येयभागहीनं सत् जघन्यस्थितिपरिमाणमवसेयम् । तथा च प्रज्ञापनोपाङ्गे-'इस्थिवेयस्स पुच्छा, गो ! जहनेणं सागरोवमस्स दिवढे सत्तभागं पलितोवमस्स असंखइजेण भागेण ऊणयं, उक्कोसेणं पण्णरससागरोवमकोडीकोडीतो पण्णरस वाससताई अवाहा' इत्यादि ।
ननु 'जोगा पयडिपएसं ' इति वचनाद्यथा प्रकृतिप्रदेशबन्धौ योगप्रत्ययौ तथा प्राक् प्रपश्चितो जघन्योत्कृष्टभेदभिन्नस्स्थितिवन्धः किंप्रत्यय ? इति चेदुच्यते-सर्वोऽपि स्थितिबन्धः संक्लेश( कषायोदय )प्रत्ययः, तत्र नरामरतिर्यगायूंषि वजयित्वा शेषाणां निखिलानामपि शुभाऽशुभानां प्रकृतीनामुत्कृष्टस्थितिबन्धे उत्कृष्टसंक्लेशः कारणम्, क्रमेण च हीयमाने संक्लेशे स्थितिबन्धोऽपि न्यूनो न्यूनतरो न्यूनतमश्च भवति, यदुक्तं शतकाख्ये पश्चमकर्मग्रन्थे श्रीमद्देवेन्द्रसूरिशेखरैः'सबाण वि जिठिइ असुहा जं साइसंकिलेसेणं । इयरा विसोहिओ पुण मुत्तुं नरअमरतिरिआउं ॥१॥ बृहच्छतकेऽपि ज्येष्ठस्थितिबन्धप्रस्तावे तथैवोक्तं ' उक्कोससंकिलेसेणं ईसिं अहमज्झिमेणावि ।' ततश्चायं प्रस्तुतार्थः, सर्वासामपि प्रकृतीनां ज्येष्ठा स्थितिरत्यन्तसंक्लेश( कषायोदय )जन्या, अत एव सा अशुभा, अशुभातिशयकषायोदयरूपकारणजन्यत्त्वात् । एतदुक्तं भवतिः-सर्वासामपि शुभाशुभानां प्रकृतीनां स्थितयः संक्लेशवृद्धौ वर्द्धन्ते तदपचये च हीयन्त इत्यन्वयव्यतिरेकाभ्यां संक्लेश( कषायोदय )मेव स्थितयोऽनुवर्तन्त इत्यशुभा अशुभकारणनिष्पन्नत्वात् , अशुभवृक्षाशुभफलवत् । नन्वेवं तर्हि 'ठिइ अणुभागं कसायओ कुणइ' इति वचनादनुभागोपि कषायप्रत्यय एव, ततोऽयमप्यशुभकारणवादशुभ एव प्रामोति, अथ च शुभप्रकृतीनामसौ शुभ एवेष्यत इति, नैवमभिप्रायापरिज्ञानात् , यतः सत्यपि हि कषायजन्यत्वे कषायवृद्धावनुभागोऽशुभ
>卐
ज卐240卐卐-)
-
<卐
॥१३॥
>卐