SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ प्रकृतीनामेव वर्धते, शुभानां तु परिहीयत एव, कषायमन्दतया तु शुभप्रकृतीनामेवानुभागो वर्धतेऽशुभप्रकृतीनां तु हीयत इति न कषायमनुवर्ततेऽनुभागः, स्थितयस्तु शुभानामशुभानां च प्रकृतीनां कषायवृद्धौ नियमाद्वर्धन्ते तदपचये चपचीयन्त इत्येकान्तेन कषायान्वयव्यतिरेकानुसारित्वादशुभा एवेति । यदि वा यथा यथा शुभप्रकृतीनां स्थितिबंधते तथा तथा शुभानुभागस्तत्संबधी हीयते, परिगालितरसेक्षुयष्टिकल्पानि शुभकर्माणि भवन्तीत्यर्थः । अशुभप्रकृतीनां तु स्थितिवृद्धावशुभरसोऽपि तत्सम्बन्धी वर्धत एवेत्यतोऽपि कारणात् स्थितीनामेवाशुभच्च, तवृद्धेः शुभानुभागक्षयहेतुत्वादशुभानुभागवृद्धिहेतुच्वाचेति । ननूक्तरूपेण ज्येष्ठा स्थितिः संक्लेशेन बध्यते, जघन्या तु किंप्रत्यया ? उच्यते, जघन्या पुनः कषायापचयरूपया विशुद्ध्या बध्यते, इदमुक्तं भवति-इह ये ये विवक्षितमूलोत्तरप्रकृतीनां बन्धकास्तेषां मध्ये यो यः सर्वोत्कृष्टविशुद्धियुक्तः स तत्तद्विवक्षितकर्मस्थिति जघन्यां बध्नातीति भावः । अयं पूर्वोक्तः प्रकारो नरामरतिर्यगायूंषि वर्जयित्वा विज्ञेयः, यतस्तेषां त्रयाणामायुषां स्थितिः शुभैव भवति, विशुद्धिलक्षणस्य तस्य कारणस्य शुभत्वात् , मनुष्यतिर्यगायुपोर्हि वृद्धिखिपल्योपमावसाना, देवायुषस्तु वृद्धिस्त्रयस्त्रिंशत्सागरोपमावसानापि शुभा, विशुद्धिरूपकारणत्वात्तस्या इति । अथवा प्रस्तुतायुष्कस्थितिवृद्धौ रसोऽपि वर्धते स च शुभः सुखजनकत्वात् , इत्यतोऽपि प्रस्तुतायुष्कस्थितेः शुभत्वं, तवृद्धः शुभरसवृद्धिहेतुत्वात् । किं च नरामरतिर्यगायुर्लक्षणं प्रकृतित्रयं मुक्त्वा शेषप्रकृतीनां प्रकृष्टसंक्लेशविशुद्धिभ्यां स्थित्युपचयापचयौ द्रष्टव्यौ, प्रस्तुतायुस्खयस्य तु तद्वन्धकेषु सर्वोत्कृष्टविशुद्धिरुत्कृष्टस्थितिबन्धं करोति, सर्वसंक्लिष्टस्तु सर्वजघन्यमिति विपरीतं द्रष्टव्यमिति ॥ इह ज्ञानावरणादिकर्मणः सर्वजघन्याया अपि स्थितेनिवर्तकानि असंख्येयलोकाकाशप्रदेशप्रमाणान्यध्ववसायस्थानानि,
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy