SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ > श्रीनवतत्त्व सुमङ्गलाटीकायां वन्धतत्वेऽनुभाग बन्धः ॥ < ॥१४॥ >_ निखिलैरपि तैरध्यवसायस्थानैरेका स्थितिर्निवर्त्यत इत्यर्थः । ततः समयाधिका जघन्यां स्थितिं यानि निवर्तयन्ति तान्यप्यसंख्येयलोकाकाशप्रदेशतुल्यानि, केवलं पूर्वेभ्यो विशेषाधिकानि । एवं यावदुत्कृष्टस्थितिबन्धनिर्वर्त्तकानि तान्यपि असंख्येयलोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि भवन्तीत्यर्थः । इति संक्षेपतः स्थितिबन्धः। यद्यपि ग्रन्थकारमहर्षिभिर्मूलगाथाभिर्यथा प्रकृतिबन्धस्थितिबन्धौ भावितौ न तथाऽनुभागप्रदेशबन्धौ, तथापि बन्धतत्वविवरणप्रसङ्गे तयोरपि वर्णनं दातुं समुचितमित्यवसरसङ्गतिन्यायेन तयोरनुभागप्रदेशबन्धयोरपि संक्षपो भाव्यते इह गभीरापारसंसारसरित्पतिमध्यविपरिवर्ती रागादिसचिवो जन्तुरभव्यानन्तगुणसिद्धानन्तभागकल्पैः परमाणुभिनिष्पन्नान् कर्मस्कन्धान् अतिसमयं गृह्णाति, यथा च योगानुसारबध्यमानकर्मस्कन्धेषु तत्समयवर्तिस्थितिबन्धाध्यवसायस्थानः स्थितिप्रमाणं निर्वय॑ते जीवेन तथा तत्समयवर्ति लेश्यासहचारिकषायोदयरूपानुभागबन्धाध्यवसायस्थानैर्वध्यमानकर्मस्कंधेषु शुभाशुभविपाकोत्पादकरसांशा अपि उत्पाद्यन्ते तत्रैकस्मिन् कर्मस्कन्धे प्रतिपरमाणु यः सर्वजघन्यो रसः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति, अन्यस्तु कर्मपरमाणुस्तानविभागानेकाधिकान् प्रयच्छति, अपरस्तु तानपि व्यधिकान्, अन्यस्तु तानपि व्यधिकान् , अन्यस्तु तानपि चतुरधिकान्, इत्यादि वृद्ध्या तावन्नेयं यावदन्त्य उत्कृष्टः कर्मपरमाणुमोलराशेरनन्तगुणानपि रसाविभागान् प्रयच्छति । इयमत्र भावना;-इह पूर्व कर्मप्रायोग्यवर्गणाऽन्तःपातिनः सन्तः कर्मपरमाणवोन तथाविधविशिष्टरसोपेता आसीरन् , किन्तु प्रायो नीरसा एकस्वरूपाश्च, यदा तु जीवेन गृह्यन्ते तदानीं १ पुद्गलवर्त्तिवर्णगन्धरसापेक्षया नात्र नीरसत्त्वं, किन्तु शुभाशुभविपाकजनकरसापेक्षया नीरसत्त्वं भावनीयम् । > - < ॥१४०॥ >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy