________________
z
>
卐
>卐
-卐
ग्रहणसमये एव तेषां लेश्यासहचरितकापायिकेणाध्यवसायेन सर्वजीवेभ्योऽप्यनन्तगुणा रसाविभागा आपद्यन्ते, ज्ञानावारकत्त्वादि विचित्रस्वभावता च, अचिन्त्यत्वाञ्जीवानां पुद्गलानां च शक्तेः, न चैतदनुपपन्न, तथा दर्शनात् , यथा शुष्कतृणादिपरमाणवोऽत्यन्तनीरसा अपि गवादिभिर्गृहीताः सन्तो विशिष्टक्षीरादिरसरूपतया सप्तधातुरूपतया च परिणम्यन्त इत्येतदुक्तं प्रायः। । इहानुभागबन्धाध्यवसायस्थानानां शुभाऽशुभभेदाभ्यां संक्लिश्यमानविशुध्यमानभेदाभ्यां वा द्विविधत्वं, तत्र शुभैः क्षीरखंडरसोपममाहादजनकमनुभागं कर्मपुद्गलानामाधत्ते, निंबघोषातकीरखोपमं चाऽशुभैः । ते च शुभा अशुभा वा अनुभागबन्धाध्यवसाया: प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः, केवलं क्षपकश्रेण्यारोहणनिबन्धनभूतानुभागवन्धाध्यवसायस्थानाऽपेक्षया शुभाऽनुभागबन्धाध्यवसायस्थानानामाधिक्यं, यतो यानेवानुभागबन्धाध्यवसायान् क्रमशः स्थापितान् संक्लिश्यमानः क्रमेणाधोऽध आस्कन्दति, तानेव विशुद्ध्यमानः क्रेमणोोर्ध्वमारोहति, ततो यथा प्रासादादवतरतो यावन्ति सोपानस्थानानि भवन्ति तावन्त्येवारोहतोऽपि, तथात्रापि यावन्त एव संक्लिश्यमानस्याऽशुभाध्यवसायास्तावन्त एव विशुध्यमानस्यापि शुभाध्यवसायाः, केवलं क्षपको येष्वध्यवसायेषु वतमानः क्षपकश्रेणिमारोहति तेभ्यः पुनर्न निवर्तते, तस्य प्रतिपाताऽभावात् , अतस्तदपेक्षया विशेषाधिकाः शुभाध्यवसायाः। अनुभागबन्धाध्यवसायस्थानकैरुत्पाद्यमानो रसो यद्यप्यनन्तभेदभिन्नस्तथापि स्पष्टार्थं विभागचतुष्के तस्योपन्यासस्तद्यथा-एकस्थानको द्विस्थानकस्विस्थानकश्चतुःस्थानक इति । तत्र स्वाभाविको यो रसः सैकस्थानकः, द्वयोः कर्षयोरावर्तितयोर्य एकः कर्षोऽवशिष्यते तदुपमो द्विस्थानकः, त्रयाणां कर्षाणामावर्त्तितानां य एकः कर्पोऽवशिष्यते तदुपमस्त्रिस्थानकः, चतुर्णां कर्षाणामावर्त्तने कृते सत्युद्धरितैककर्षोपमश्चतुःस्थानकः। एकस्थानका
ins卐卐<卐zs0g-धर
>卐
-卐
<卐
>卐