________________
z
भीनवतत्त्वसुमङ्गलाटीकायां॥१४॥
>卐ycy
बन्धतत्वे करणाष्टकम् ॥
दिरसा इह यथोत्तरमनन्तगुणा द्रष्टव्याः । अत्र च मतिश्रुतावधिमनःपर्यायज्ञानावरणानि चक्षुरचक्षुरवधिदर्शनावरणानि पुरुषवेदश्चत्वारः सस्वलनाः पञ्चविधमन्तरायं चेति सप्तदशप्रकृतय एकद्वित्रिचतुःस्थानकपरिणताः प्राप्यन्ते बन्धमधिकृत्य । तत्र यावन्न श्रेणिप्रतिपत्तिस्तावदासां सप्तदशप्रकृतीनां यथाध्यवसायं द्विस्थानकस्य त्रिस्थानकस्य चतुःस्थानकस्य वा रसस्य बन्धः। श्रेणिप्रतिपत्तौ चनिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेषु तदनन्तरमेतासामशुभत्वादत्यन्तविशुद्धाध्यवसाययोगेनैकस्थानकस्यैव रसस्य बन्ध इत्येता वन्धमधिकृत्य चतुःस्थानपरिणताः प्राप्यन्ते । शेषास्तु शुभा अशुभा वा द्विस्थानकरसास्त्रिस्थानकरसाश्चतुःस्थानकरसाश्च प्राप्यन्ते, न तु कदाचनाप्येकस्थानकरसाः। यत उक्तानां सप्तदशव्यतिरिक्तानां हास्याद्यानामशुभप्रकृतीनामेकस्थानकरसवन्धयोग्या शुद्धिरपूर्वकरणप्रमत्ताप्रमत्तानां न भवति, यदा चेकस्थानकरसवन्धयोग्या परमप्रकर्षप्राप्ता शुद्धिरनिवृतिबादराद्धायाः संख्येयेभ्यो भागेभ्यः परतो जायते तदा बन्धमेव न ता आयान्तीति न तासामेकस्थानको रसः । न च यथा श्रेण्यारोहेऽनिवृतिवादराद्धायाः संख्येयेषु भागेषु गतेषु परतोऽतिविशुद्धच्चान्मतिज्ञानावरणादीनामेकस्थानकरसबन्धस्तथा क्षपकश्रेण्यारोहे सूक्ष्मसम्परायस्य चरमद्विचरमसमयादिषु वर्तमानस्यातीव विशुद्धच्चात् केवलद्विकस्य सम्भवद्वन्धस्यैकस्थानकरसबन्धसम्भवः कथं न भवतीति शङ्कनीयं, स्वल्पस्यापि केवलद्विकरसस्य सर्वघातित्वात् , सर्वघातिनां च जघन्यपदेपि द्विस्थानकरसस्यैव सम्भवात् । शुभानामपि प्रकृतीनां मिथ्यादृष्टिः संक्लिष्टो नैकस्थानकरसं बध्नाति, मनाग्विशुध्यमान. एव तद्वन्धसम्भवात् , अतिसंक्लिष्टे मिथ्यादृष्टौ तद्वन्धासम्भवात् , संक्लेशोत्कर्षे च शुभप्रकृतीनामेकस्थानकरसबन्धसम्भावनानवकाशात् । यास्त्वतिसंक्लिष्टेऽपि मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसाधाः शुभप्रकृतयो
-
>
<
॥१४॥
>
>