SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ z 5 5 5 V A T 5 A बन्धमायान्ति तासामपि तथाखाभाव्यात् जघन्यतोऽपि द्विस्थानक एव रसो बन्धमायाति, नैकस्थानक इति । पुना रसमधिकृत्य द्विविधाः प्रकृतयः, घातिन्यः, अघातिन्यश्च । घातिनीष्वपि सर्वघातित्त्वदेशघातित्वापेक्षया द्विविधवत्त्वम्, तत्र याः प्रकृतयः स्वविषयं कात्स्न्र्त्स्न्येन घ्नन्ति ताः सर्वघातिन्यः केवलद्विकमाद्यद्वादशकषाया मिथ्यात्त्वं निद्रापञ्चकश्चेति विंशतिः । एता हि प्रकृतयो यथायोगमात्मघात्यं गुणं सम्यक्त्वं ज्ञानं दर्शनं चारित्रं वा सर्वात्मना घातयन्तीति । स्वविषयं देशतोः घ्नन्ति ता देशघातिन्यः ज्ञानावरणचतुष्कदर्शनावरणत्रिक ( सम्यक्त्वमिश्रमोहनीय ) सञ्ज्वलनचतुष्कहास्यादिपदक वेदत्रिकाऽन्तरायपञ्चकलक्षणाः पञ्चविंशतिप्रकृतयः । शेषा अघातिन्यः । अघातिनीनामपि तासां सर्वदेशघातिप्रकृतिसम्पकत्तद्रसविपाकोपदर्शकत्वं भवतीति । अत्र सर्वघातिनीनां देशघातिनीनां वा प्रकृतीनां यानि चतुःस्थानकरसानि त्रिस्थानक - रसानि वा स्पर्धकानि तानि नियमतः सर्वघातीनि भवन्ति, द्विस्थानकरसानि तु सर्वघातिनीनां सर्वघातिन्येव, देशघातिनीनां N तु कानिचित्सर्वघातीनि कानिचिद्देशघातीनीत्येवं मिश्राणि, एकस्थानकरसानि च देशघातिनीनामेव भवन्ति, तानि च देशघातिन्येव । अत्रानुभागबन्धे जीवपुद्गलभवक्षेत्रविपाकादिकमधिकृत्यान्योऽपि विशेषोऽस्ति, दिङ्मात्रमत्र दर्शितं विस्तरस्तु बन्धशतकादिभ्योऽवसेयः ॥ SUSMA5N50A5L5A अथ प्रदेशबन्धस्संक्षेपतो भाव्यते, तस्मिन् विषये श्रीतत्त्वार्थाधिगमसूत्रे “ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः (अ० ८, सूत्र २५)" इति सूत्रं, तत्राष्टौ प्रश्नाः कस्य प्रत्ययाः कारणी भूताः किं प्रत्यया वा पुद्गला बध्यन्ते । इत्येकः प्रश्नः १ । जीवोऽपि तान् बध्नानः पुद्गलान् किमेकेन दिक्प्रदेशेन बघ्नात्युत
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy