________________
बन्धतत्त्वे
भीनवतत्त्वमुमङ्गलाटीकायां॥१४२॥
प्रदेशबन्धः ॥
39-994<>卐
सर्वदिक्प्रदेशैरिति ? २। सोऽपि बन्धः किं सर्वजीवानां तुल्यः आहोस्वित् कुतश्चिन्निमित्तादतुल्यः ? ३ । किंगुणाः केवलाः, पुद्गला बन्धास्पदं भवन्ति १४ । यत्र चाकाशदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीवप्रदेशाः किं तेषामेव पुद्गलानां तत्र चन्धः, आहोस्विजीवप्रदेशावगाढगगनदेशव्यतिरिक्तप्रदेशवर्तिनोऽपि बध्यन्ते१५ । किंवा स्थितिपरिणता बध्यन्ते अथवा गतिपरिणताः १६ । ते च किमात्मना सर्वप्रदेशेषु अथैकदेशे श्लिष्यन्ति ? ७ । स्कंधा वा किं संख्येयाऽसंख्येयाऽनन्तप्रदेशा बध्यन्ते, उताऽनन्ताऽनन्तप्रदेशा इति ? ८ । एषामष्टानां प्रश्नाना पूर्वोक्तसूत्रस्य अष्टावयवानाश्रित्य निराकाङ्क्षीकरणम्, तद्यथा-' नामप्रत्ययाः' इति, ज्ञानावरणाद्यन्तरायपर्यवसानानामन्वर्थसंज्ञानां कर्मणां कारणानि पुद्गला भवन्तीत्यर्थः, अथवा 'किंप्रत्यया' इति विग्रहे योगा औदारिकादिशरीरनामकर्मलक्षणास्तन्निमित्ताः पुद्गला बन्धमायान्ति, अथवौदारिकादिबन्धननामनिमित्ताः पुद्गला बन्धमायान्तीति १। 'सर्वतः' इति, सर्वासु दिक्षु आत्मावधिकासु व्यवस्थितान् पुद्गलानादत्ते । अथवा सर्वत इति सर्वैरात्मप्रदेशैः पुद्गलान् गृह्णाति २। 'योगविशेषात् ' इति, नापि सर्वेषां बन्धकानां सम्बन्धस्तुल्यः, कुतः ? योगविशेषात् , आत्मना युज्यत इति योगः, कायाद्विचेष्टा, योगानां विशेषः तीव्रमन्दादिको भेदस्तस्मात्तुल्यबन्धाऽभाव इति ३ । 'सूक्ष्माः ' इति, सूक्ष्मपरिणतिरूपाः कर्मवर्गणायोग्या एव वध्यन्ते, न बादरपरिणतिभाजः, ४ । 'एकक्षेत्रावगाढाः' इति, एकस्मिन्नभिन्न क्षेत्रे जीवप्रदेशैस्सह येऽवगाढास्ते बध्यन्ते, तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढा इति ५। 'स्थिताः' इति, स्थितिपरिणामपरिणताः स्थिता एव बध्यन्ते, न गतिपरिणताः, ते तु गतिपरिणामविशेषानात्मनि श्लिष्यन्त इति ६ । 'सर्वात्मप्रदेशेषु' इति, सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु वध्यन्ते,
॥१४२॥