________________
z
<$
>
-卐
एकैको ह्यात्मप्रदेशोऽनन्ताऽनन्तैः कर्मप्रदेशैर्बद्ध इति ७। 'अनन्ताऽनन्तप्रदेशाः' इति, अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपादथवाऽनन्तराशिभूयोऽप्यनन्तेन गुणितोऽनन्तानन्त इति व्यपदेशमश्नुते, ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तानन्तप्रदेशाः स्कन्धाः कर्मवर्गणायोग्या बध्यन्ते, अयोग्यास्तु नबन्धमुपयान्तीति ८ प्रदेशबन्धविषयकोऽन्योऽप्यनुयोगो कर्मग्रन्थकर्मप्रकृत्यादिषु दृश्यते, तस्यायं संक्षेपः-इहाष्टविधबन्धकेन जन्तुना यदेकेनाध्यवसायेन विचित्रतागर्भेण गृहीतं दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य सप्तभागाः, षड्विधबन्धकस्य षड्भागाः, एकविधबन्धकस्यैको भागः । तत्र यदाऽऽयुर्वन्धकालेऽष्टविधबन्धको जन्तुर्भवति तदा शेषकर्मस्थित्यपेक्षयाऽऽयुषोऽल्पस्थितित्त्वेन गृहीतस्य तस्यानन्तस्कंधात्मककर्मद्रव्य स्यांशः सर्वस्तोकः, ततो नाम्नि गोत्रे च तुल्यस्थितित्वेन स्वस्थाने द्वयोरपि समो भागः, आयुष्कभागाऽपेक्षया विशेषाधिकः । ततो ज्ञानावरणदर्शनावरणाऽन्तरायाणां तुल्यस्थितिकत्त्वात् स्वस्थाने त्रयाणामपि समोऽशः, नामगोत्रापेक्षया विशेषाधिकः, ज्ञानदर्शनावरणान्तरायापेक्षया मोहनीये विशेषाधिकः, ततो वेदनीयस्य सर्वतो विशेषाधिकः । वेदनीयस्य कर्मणः स्थित्या अल्पत्वेऽपि भागस्य यत्सर्वतो विशेषाधिकत्त्वं तत्र कि बीजमिति चेदुच्यते सुखदुःरकजननस्वभाव वेदनीयं कर्म, तद्भावपरिणताश्च पुद्गलाः स्वभावात्प्रचुरा एव सन्तः स्वकार्य सुखदुःरकरूपं व्यक्तीकर्तुं समर्थाः, शेषकर्मपुद्गलाः पुनः स्वल्पा अपि स्वकार्य निष्पादयन्ति । दृश्यन्ते च पुद्गलानां स्वकार्यजननेऽल्पबहुत्वकृतं सामर्थ्यवैचित्र्य, यथा स्वल्पमपि विष मारणादिकार्य साधयति, लेष्टुकादिकं तु प्रचुरमित्येवमिहापि उपनयः कार्यः, वेदनीयमृते शेषाणामायुष्कादीनां स्थित्यनुसारेण भागस्य हीनाधिक्यं विज्ञेयम् । उत्तरप्रकृतीनां भामस्य हीनाधिक्यमन्यतोऽवसेयमिति । इति प्रदेशबन्धस्य संक्षेपः, तस्मिन्
105555750卐卐र
>卐
卐
<3
1>