Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 315
________________ z भीनवतत्त्वसुमङ्गलाटीकायां॥१४॥ >卐ycy बन्धतत्वे करणाष्टकम् ॥ दिरसा इह यथोत्तरमनन्तगुणा द्रष्टव्याः । अत्र च मतिश्रुतावधिमनःपर्यायज्ञानावरणानि चक्षुरचक्षुरवधिदर्शनावरणानि पुरुषवेदश्चत्वारः सस्वलनाः पञ्चविधमन्तरायं चेति सप्तदशप्रकृतय एकद्वित्रिचतुःस्थानकपरिणताः प्राप्यन्ते बन्धमधिकृत्य । तत्र यावन्न श्रेणिप्रतिपत्तिस्तावदासां सप्तदशप्रकृतीनां यथाध्यवसायं द्विस्थानकस्य त्रिस्थानकस्य चतुःस्थानकस्य वा रसस्य बन्धः। श्रेणिप्रतिपत्तौ चनिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेषु तदनन्तरमेतासामशुभत्वादत्यन्तविशुद्धाध्यवसाययोगेनैकस्थानकस्यैव रसस्य बन्ध इत्येता वन्धमधिकृत्य चतुःस्थानपरिणताः प्राप्यन्ते । शेषास्तु शुभा अशुभा वा द्विस्थानकरसास्त्रिस्थानकरसाश्चतुःस्थानकरसाश्च प्राप्यन्ते, न तु कदाचनाप्येकस्थानकरसाः। यत उक्तानां सप्तदशव्यतिरिक्तानां हास्याद्यानामशुभप्रकृतीनामेकस्थानकरसवन्धयोग्या शुद्धिरपूर्वकरणप्रमत्ताप्रमत्तानां न भवति, यदा चेकस्थानकरसवन्धयोग्या परमप्रकर्षप्राप्ता शुद्धिरनिवृतिबादराद्धायाः संख्येयेभ्यो भागेभ्यः परतो जायते तदा बन्धमेव न ता आयान्तीति न तासामेकस्थानको रसः । न च यथा श्रेण्यारोहेऽनिवृतिवादराद्धायाः संख्येयेषु भागेषु गतेषु परतोऽतिविशुद्धच्चान्मतिज्ञानावरणादीनामेकस्थानकरसबन्धस्तथा क्षपकश्रेण्यारोहे सूक्ष्मसम्परायस्य चरमद्विचरमसमयादिषु वर्तमानस्यातीव विशुद्धच्चात् केवलद्विकस्य सम्भवद्वन्धस्यैकस्थानकरसबन्धसम्भवः कथं न भवतीति शङ्कनीयं, स्वल्पस्यापि केवलद्विकरसस्य सर्वघातित्वात् , सर्वघातिनां च जघन्यपदेपि द्विस्थानकरसस्यैव सम्भवात् । शुभानामपि प्रकृतीनां मिथ्यादृष्टिः संक्लिष्टो नैकस्थानकरसं बध्नाति, मनाग्विशुध्यमान. एव तद्वन्धसम्भवात् , अतिसंक्लिष्टे मिथ्यादृष्टौ तद्वन्धासम्भवात् , संक्लेशोत्कर्षे च शुभप्रकृतीनामेकस्थानकरसबन्धसम्भावनानवकाशात् । यास्त्वतिसंक्लिष्टेऽपि मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसाधाः शुभप्रकृतयो - > < ॥१४॥ > >

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376