Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
>
श्रीनवतत्त्व सुमङ्गलाटीकायां
वन्धतत्वेऽनुभाग
बन्धः
॥
<
॥१४॥
>_
निखिलैरपि तैरध्यवसायस्थानैरेका स्थितिर्निवर्त्यत इत्यर्थः । ततः समयाधिका जघन्यां स्थितिं यानि निवर्तयन्ति तान्यप्यसंख्येयलोकाकाशप्रदेशतुल्यानि, केवलं पूर्वेभ्यो विशेषाधिकानि । एवं यावदुत्कृष्टस्थितिबन्धनिर्वर्त्तकानि तान्यपि असंख्येयलोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि भवन्तीत्यर्थः । इति संक्षेपतः स्थितिबन्धः।
यद्यपि ग्रन्थकारमहर्षिभिर्मूलगाथाभिर्यथा प्रकृतिबन्धस्थितिबन्धौ भावितौ न तथाऽनुभागप्रदेशबन्धौ, तथापि बन्धतत्वविवरणप्रसङ्गे तयोरपि वर्णनं दातुं समुचितमित्यवसरसङ्गतिन्यायेन तयोरनुभागप्रदेशबन्धयोरपि संक्षपो भाव्यते
इह गभीरापारसंसारसरित्पतिमध्यविपरिवर्ती रागादिसचिवो जन्तुरभव्यानन्तगुणसिद्धानन्तभागकल्पैः परमाणुभिनिष्पन्नान् कर्मस्कन्धान् अतिसमयं गृह्णाति, यथा च योगानुसारबध्यमानकर्मस्कन्धेषु तत्समयवर्तिस्थितिबन्धाध्यवसायस्थानः स्थितिप्रमाणं निर्वय॑ते जीवेन तथा तत्समयवर्ति लेश्यासहचारिकषायोदयरूपानुभागबन्धाध्यवसायस्थानैर्वध्यमानकर्मस्कंधेषु शुभाशुभविपाकोत्पादकरसांशा अपि उत्पाद्यन्ते तत्रैकस्मिन् कर्मस्कन्धे प्रतिपरमाणु यः सर्वजघन्यो रसः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति, अन्यस्तु कर्मपरमाणुस्तानविभागानेकाधिकान् प्रयच्छति, अपरस्तु तानपि व्यधिकान्, अन्यस्तु तानपि व्यधिकान् , अन्यस्तु तानपि चतुरधिकान्, इत्यादि वृद्ध्या तावन्नेयं यावदन्त्य उत्कृष्टः कर्मपरमाणुमोलराशेरनन्तगुणानपि रसाविभागान् प्रयच्छति । इयमत्र भावना;-इह पूर्व कर्मप्रायोग्यवर्गणाऽन्तःपातिनः सन्तः कर्मपरमाणवोन तथाविधविशिष्टरसोपेता आसीरन् , किन्तु प्रायो नीरसा एकस्वरूपाश्च, यदा तु जीवेन गृह्यन्ते तदानीं
१ पुद्गलवर्त्तिवर्णगन्धरसापेक्षया नात्र नीरसत्त्वं, किन्तु शुभाशुभविपाकजनकरसापेक्षया नीरसत्त्वं भावनीयम् ।
>
-
<
॥१४०॥
>

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376