Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 302
________________ z 5 > 5 - 5 -> A T A स्थावरा भवन्ति २ । यदुदयाजीवानां चक्षुग्राह्यशरीरत्वलक्षणं बादरत्वं भवति तद्वादरनाम, पृथिव्यादेरेकैकशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बादरत्त्वपरिणामविशेषाद्बहूनां समुदाये चक्षुषा ग्रहणं भवति ३ । तद्विपरीतं सूक्ष्मनाम, यदुदयाद्वहूनां समुदितानामपि जन्तुशरीराणां चक्षुर्ग्राह्यता न भवति ४ । यदुदयात्स्वयोग्यपर्याप्तिनिर्वर्त्तनसमर्थो भवति तत्पर्याप्तनाम ५ । तद्विपरीतमपर्याप्तनाम, यदुदयात्स्वयोग्य पर्याप्तिनिर्वर्त्तनसमर्थो न भवति ६ । यदुदयात्प्रतिजीवं भिन्नशरीरमुपजायते तत्प्रत्येकनाम, ननु कपित्थाश्व - थपीलुप्रभृतिनां मूलस्कंधत्वक्छाखादयः प्रत्येकमसंख्येयजीवाः प्रवचनें प्रोच्यन्ते, मूलादयश्च देवदत्तशरीरखदखण्डैकशरीराकारा उपलभ्यन्त इति कथं तेषां प्रत्येकशरीरत्वं ? प्रतिजीवं शरीरभेदाऽभावात् इतिचेन्मैवं, तन्मूलादिष्वसङ्घथेयानामपि जीवानां भिन्नभिन्नशरीराभ्युपगमात्, केवलं श्लेषद्रव्य मिश्रितसकलसर्पपवर्तिवत्प्रबलरागद्वेषोपचितविचित्रप्रत्येकनामकर्मपुद्गलोदयात्तेषां परस्परविमिश्रशरीरसंभवात् ७| यदुदयादनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम ८ । यदुदयाच्छिरोऽस्थिदन्तादीनां शरीरावयवानां स्थिरता भवति तत् स्थिरनाम ९ । तद्विपरीतमस्थिरनाम, यदुदयाजिह्वादीनां शरीरावयवानामस्थिरता १० । यदुदयान्ना भेरुपरितना अवयवाः शुभा जायन्ते तच्छुभनाम, ११ । तद्विपरीतमशुभनाम, यदुदयान्नाभेरधस्तनाः पादादयोऽवयवा अशुभा भवन्ति, तथाहि :- शिरसा स्पृष्टस्तुष्यति मनुष्यः पादेन तु रुष्यति, कामिन्याः पादस्पर्शेन च यस्तोपः स मोहनिबन्धनो न तु वास्तव इति न तेन व्यभिचारः १२ । यदुदयाजीवस्वरः श्रोतृप्रीतिहेतुर्भवति तत्सुस्वरनामा, १३ । तद्विपरीतं दुःस्वरनाम, यदुदयात्स्वरः श्रोतॄणामप्रीतिहेतुर्भवति १४ । यदुदयादनुपकृदपि सर्वस्य मनःप्रियो भवति तत्सुभगनाम १५ । तद्विपरीतं दुर्भगनाम, यदुदयादुपकारकृदपि जनस्य द्वेष्यो भवति १६ । यच्च तीर्थकरोऽप्यभव्यानां द्वेष्यो भवति तत्र न फ्र UM<550A5. N A

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376