Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 260
________________ Z 5 > 55-55 A 5 निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीं " इच्चेइयं दुबालसंगं गणिपीडगं न कयाह णासी" इत्यादिवचनादनाद्यनिधनां द्वादशाङ्गीं सूत्रतोऽर्थतश्च सावरणज्ञानत्वात् प्रज्ञायाः परिदुर्बलच्चात् कदाचिन्न जानाति तथाप्येवं विचिनुयाद्यदवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नाऽन्यथाव्यवस्थितमन्यथा भाषन्तेऽनृतकारणाऽभावात्, यदुक्तं :- " वीतरागा हि सर्वज्ञा मिथ्या न बुवते क्वचित् ॥ यस्मात्तस्माद्वचस्तेषां तथ्यं भूतार्थदर्शनम् " || अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमि- M त्याज्ञायां यत्प्रणिधानं तदाज्ञाविचयाऽऽख्यधर्मध्यानम् १ ॥ अपायाः विपदः, शारीरमानसानि दुःखानि तेषां विचयोऽन्वेषणं, ह कथं जीवा अपायबहुलाः प्रभवन्तीति तदपायविचयाख्यं द्वितीयं धर्मध्यानम् । अयमत्र भावः, -रागद्वेपाऽऽकुलितचेतोवृत्तयः सत्त्वा मूलोत्तर प्रकृतिविभागभिन्नकर्म्मायजन्यजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवप्रवाहेषु वर्त्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिभिः परिणताः पर्याप्तं कर्मजालमादाय नरकादिगतिषु N दुरन्तं दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहाऽपि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते क्लिश्यन्ते चेत्यतः 45 प्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वे गाय यत्प्रणिधानं सोऽपायविचयाऽऽख्यो भेद इति २ । तृतीयं धर्मध्यानं विपाकविचयाक रूयमुच्यतेः, विविधो विशिष्टो वा पोको विपाकः - अनुभावः रसानुभव इत्यर्थः । कर्मणां विपाकस्य नरकतिर्यङ मनुष्यामरभवेषु विचयोऽनुचिन्तनमिति विपाकविचयः । ज्ञानावरणादिकमष्टप्रकारं कर्म्म प्रकृतिस्थित्यनुभावप्रदेश भेदमिष्टाऽनिष्टविपाकपरिणाम जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् । तद्यथाः - ज्ञानावरणाद् दुर्मेधस्त्वम्, दर्शनावरणाच्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च, असद्वेद्याद् दुःखं, सद्वेद्यात्सुखानुभवः, मोहनीयाद्विपरीतग्राहिता चारित्रविनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावः, नाम्नः G V 凯 U

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376