SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Z 5 > 55-55 A 5 निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीं " इच्चेइयं दुबालसंगं गणिपीडगं न कयाह णासी" इत्यादिवचनादनाद्यनिधनां द्वादशाङ्गीं सूत्रतोऽर्थतश्च सावरणज्ञानत्वात् प्रज्ञायाः परिदुर्बलच्चात् कदाचिन्न जानाति तथाप्येवं विचिनुयाद्यदवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नाऽन्यथाव्यवस्थितमन्यथा भाषन्तेऽनृतकारणाऽभावात्, यदुक्तं :- " वीतरागा हि सर्वज्ञा मिथ्या न बुवते क्वचित् ॥ यस्मात्तस्माद्वचस्तेषां तथ्यं भूतार्थदर्शनम् " || अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमि- M त्याज्ञायां यत्प्रणिधानं तदाज्ञाविचयाऽऽख्यधर्मध्यानम् १ ॥ अपायाः विपदः, शारीरमानसानि दुःखानि तेषां विचयोऽन्वेषणं, ह कथं जीवा अपायबहुलाः प्रभवन्तीति तदपायविचयाख्यं द्वितीयं धर्मध्यानम् । अयमत्र भावः, -रागद्वेपाऽऽकुलितचेतोवृत्तयः सत्त्वा मूलोत्तर प्रकृतिविभागभिन्नकर्म्मायजन्यजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवप्रवाहेषु वर्त्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिभिः परिणताः पर्याप्तं कर्मजालमादाय नरकादिगतिषु N दुरन्तं दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहाऽपि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते क्लिश्यन्ते चेत्यतः 45 प्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वे गाय यत्प्रणिधानं सोऽपायविचयाऽऽख्यो भेद इति २ । तृतीयं धर्मध्यानं विपाकविचयाक रूयमुच्यतेः, विविधो विशिष्टो वा पोको विपाकः - अनुभावः रसानुभव इत्यर्थः । कर्मणां विपाकस्य नरकतिर्यङ मनुष्यामरभवेषु विचयोऽनुचिन्तनमिति विपाकविचयः । ज्ञानावरणादिकमष्टप्रकारं कर्म्म प्रकृतिस्थित्यनुभावप्रदेश भेदमिष्टाऽनिष्टविपाकपरिणाम जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् । तद्यथाः - ज्ञानावरणाद् दुर्मेधस्त्वम्, दर्शनावरणाच्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च, असद्वेद्याद् दुःखं, सद्वेद्यात्सुखानुभवः, मोहनीयाद्विपरीतग्राहिता चारित्रविनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावः, नाम्नः G V 凯 U
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy