________________
N
<
श्रीनवतत्त्व मुमङ्गलाटीकायां॥११३॥
निर्जरातत्त्वे
धर्मध्यानम् ।।
>
<
कृष्णलेश्यानुयायि, वक्ष्यमाणरौद्रध्यानाऽपेक्षया मन्दसंक्लेशमिति ॥ तिर्यग् गतिश्चास्य फलम् ॥
अथ रौद्रम् -तच्चतुर्विधम् , हिंसानुबन्धि, मृषाऽनुबन्धि, स्तेयानुबन्धि, संरक्षणाऽनुबन्धि च । तत्र वधबन्धनादिप्रकारैः। सत्त्वान् हिनस्ति पीडामुत्पादयति हिंसाथ प्रायः सततं प्रणिधत्त इत्येवं शीलं तद्धिंसानुबन्धि १। पिशुनाऽसभ्याऽसद्भूतादिवचनप्रकारैर्मृषाअसत्यमनुबध्नातीति मृषानुबन्धि २। तीव्रक्रोधाद्याकुलतया स्तेयं चौरकर्म तस्मिन् सततं येन प्रवृत्तिस्तत्स्तेयानुबन्धि ३। विषमिव यान्ति विसर्पन्ति परिभुज्यमाना इति विषयाः, पृषोदरादित्वात् शब्दनिष्पत्तिः । अथवा 'पिञ्' बन्धने (पा० धा०१४७८) भोक्तारं विशेषेण विविधेन वा सिन्वन्ति बघ्नन्तीति विषयाः शब्दादयः, तत्साधनानि च चेतनाऽचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि । विषीदन्ति वा प्राणिना येषु परिभुञ्जानास्ते विषयाः । यथोक्तं प्रशमरतौ;-" यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः। किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः" ॥१॥ विषयसाधनधनधान्यादिसंरक्षणप्रणिधानलक्षणं संरक्षणानुबन्धि रौद्रध्यानमिति । हिंसादिसावद्यकार्येष्वानन्दः अधर्मे धर्मबुद्धिः प्रचण्डक्रोधाविष्टत्त्वं महामोहाभिभूतत्त्वं तीव्रवधविषयकसंक्लिष्टाऽध्यवसायित्त्वं पश्चात्तापाऽभावत्वमित्यादिलक्षणैरयं रौद्रध्यानानुगत इति लक्ष्यते । अतिसक्लिष्टकृष्णनीलकापोतलेश्यानुयायि रौद्रम् ॥ एतच्चाऽविरतदेशविरतयोरेव नान्येषामग्रगुणस्थानवर्तिनामिति ॥ प्रायेण नरकगतिफलप्रदं रौद्रध्यानम् ।।
अथ धर्मध्यानम्-एतच्च आज्ञाविचय-अपायविचय-विपाकविचय-संस्थानविचयभेदाच्चतुर्विधम् । तत्राज्ञा सर्वज्ञप्रणीत आगमः तामाज्ञामित्थं विचिनुयात् पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महा● महानुभावां
93979059
-
-
>
|॥११३॥