________________
Tu
zy339-
z
आत्मैव रुद्र इत्यर्थः। धर्मः क्षमादिलक्षणस्तस्सादनपेतं धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति । शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयति ग्लपयति निरस्यतीति शुक्लम् । यद्यप्यत्र धर्म्यशुक्ले एव निर्जरानिमित्तत्त्वान् मोक्षहेतू तथापि प्रसङ्गसङ्गत्या आर्त्तरौद्रे अपि किश्चिद्विविच्येते;__तत्राऽऽत्तं चतुर्विघ-इष्टविप्रयोगाऽनिष्टसम्प्रयोगरोगचिन्तानिदानमेदैः । तत्र मनोन्नविषयाणां विप्रयोगे कथं नु नाम तैर्मनोज्ञविषयैस्सह भूयोऽपि मम सम्प्रयोगस्स्यादिति चिन्तालक्षणमिष्टविप्रयोगार्चध्यानम् १ । अमनोज्ञानां शब्दादिविषयाणां सम्प्रयोगे सति तेषामनिष्टशब्दादिविषयाणां विप्रयोगार्थमात्मनः प्रणिधानविशेषः केनोपायेनामीषां वियोगस्स्यादित्येकतानमनोनिवेशनलक्षणोऽनिष्टसम्प्रयोगसंज्ञको द्वितीयो भेदः २ । प्रकुपितपवमानपित्तश्लेष्मसनिपातनिमित्तैरुपजातायाः शूलशिर:कम्पज्वराक्षिश्रवणदशनादिकाया वेदनाया विप्रणाशाय यदात्मनः प्रणिधानं तद्रोगचिन्ताऽऽर्तध्यानम् ३ । निदायते लूयते लुप्यते येनात्महितमैकान्तिकात्यन्तिकानाबाधसुखलक्षणं तनिदानमिति । निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् । मोक्षफलप्रापकाणां स्वानुष्ठिततपश्चरणादिगुणानामैहिकाऽमुष्मिकपौद्गलिकविषयप्रभृतिसुखलिप्सया विषयसुखगृद्धानां कामोपहतचित्तानां स्वाभीप्सितविषयाद्ययं यत्प्रणिधानं तन्निदानार्तध्यानमिति चतुर्थः प्रकारः ४॥ चतुःप्रकारकस्याप्येतस्यार्तध्यानस्य शोकादीनि लक्षणानि भवन्ति, यैः करतलविन्यस्तवदनक्रन्दनविलपनहाहेतिशब्दोच्चारणदीर्घनिश्वासप्रमुखलक्षणैरार्तध्यायी अयमिति लक्ष्यते । एतच्चार्तध्यानमविरतदेशविरतप्रमत्तसंयतानां क्रमेण मन्दमन्दतरमन्दतमपरिणामवद्भवति, नवप्रमत्तसंयतादीनां तथाविधविशुद्धिस्थानसम्पर्कादा-ध्यानयोग्यसङ्क्शपरिमाणाऽभावादिति, पुनरेतदातं नातिसंक्लिष्टकापोतनील
9-
y05'-
>
<!