________________
zफ़
श्रीनवतत्त्वसुमङ्गलाटीकायां
निर्जरातत्वे ध्यानचतुकम् ॥
॥११२॥
>-->卐<!
रुपग्रहः शुश्रूषा भैषजक्रिया कान्ताररोगोपसर्गेषु परिपालनमेवमादि वैयावृत्त्यम् ॥
तथा स्वाध्यायः-सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः, स च वाचना-प्रच्छनाऽनुप्रेक्षा-ऽऽम्नाय-धर्मोपदेशभेदात् पञ्चविधः । तत्र वाचनं शिष्याध्यापनं । प्रच्छनं ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितार्थप्रसाधनाय वा परानुयोगः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनं गुणनं रूपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णनमिति यावत् ।
अथ ध्यानम् :-ध्यातिानमन्तर्मुहर्तकालप्रमाणं चित्तस्थिरतालक्षणम् । चित्तश्च मर्कटवच्चपलं, तस्य कस्मिश्चिदप्येकस्मिन् ध्येयविषये स्थापनं तद्धथानं, एतच्च छद्मस्थविषयं, केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम् , तेषां मनसोऽभावात् , नावाप्तकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्त्वादिति । उक्तञ्च-" अंतोमुहूत्तमित्तं चित्तावथाणमेगवत्थुम्मि । छउमथाणं झाणं जोगनिरोहो जिणाणं तु" ॥१॥ अत्र च ध्याता संसार्यात्मा, ध्यानस्वरूपं चलचित्तनिरोधपूर्वकैकविषयस्थैर्यापादनलक्षणं, कालतः छमस्थानाश्रित्य मुहूर्त्तमात्रं, ध्येयप्रकारास्त्वमनोज्ञमनोज्ञविषयसंप्रयोगविप्रयोगादयः । इति सामान्यत उद्दिष्टं, अथ भेदप्रभेदैः प्रदर्श्यते, तद्यथा-ध्यानं चतुर्विध आरौद्रधर्म्यशुक्लभेदैः। तत्र ऋतशब्दो दुःखपर्यायवाच्याश्रीयते, अर्तेर्गमिक्रियापरिस्पन्दिनो निष्ठाप्रत्ययान्तः, तस्मादागतार्थे तद्धितप्रत्ययो णित्, आतं दुःखभवं दुःखानुबन्धिचेति, तथा चाऽमनोज्ञविषयसम्प्रयोगो दुःखम् , वेदना च नेत्रशिरोदशनादिका दुःखमेव, तथा मनोज्ञविषयविप्रयोगो दुःखमेवेत्युपपन्नः प्रत्ययार्थः। तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतुः तेन कृतं तत्कर्म वा रौद्रं प्राणिवधबन्धादिपरिणत
卐555750
-
॥११२॥