SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 2 s > <s- अथ वैयावृत्त्यम:-व्यावृत्तः प्रवचनोदितक्रियानुष्ठानलक्षणव्यापारप्रवृत्तः तस्य भावः कर्म वा वैयावृत्यम् । व्याधिपरीपहाद्युपनिपाते तत्प्रतीकारस्तदानुकूल्यानुष्ठानं चेत्यर्थः। तच्चाऽऽचार्यो-पाध्याय-स्थविर-तपस्वि-शैक्ष-ग्लान-साधर्मिककुल-गण-सङ्घलक्षणविषयभेदेन दशधा, आचार्यवैयावृत्त्यम् , उपाध्यायवैयावृत्यम् , यावत् सङ्घवैयावृत्त्यमिति । तत्र स्वयमाचरति पराँश्चाचारयति, आचर्यते सेव्यत इति वाऽऽचार्यः। स च पञ्चधा;-प्रव्राजकाचार्यः, दिगाचार्यः, उद्देशकाचार्यः समद्देशानुज्ञाचार्यः, आम्नायार्थवाचकाचार्य इति । तत्र सामायिकवतादेरारोपयिता प्रव्राजकाचार्यः, सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्यः, प्रथमत एव श्रुतमुद्दिशति यः स उद्देशाचार्यः उद्देष्टगुर्वभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स समद्देशाऽनुज्ञाचार्यः, आम्नायमुत्सर्गापवादलक्षणमर्थ वक्ति यः स प्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्याद्यनुज्ञायी आचारगोचरविषयस्य स्वाध्यायस्य वाचकत्वेन वा आम्नायार्थवाचकाचार्यः । आचार्याल्लुब्धाऽनुज्ञाः साधव उपसमीपेऽधीयतेऽस्मादित्युपाध्यायः। स्थविरो वृद्धः, स श्रुत-पर्याय-वयोभेदात् त्रिविधः श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थविरः सप्तत्यादिवर्षजीवितः। विकृष्टं दशमादि किञ्चिन्यूनषण्मासान्तं तपः कुर्वस्तपस्वी । अचिरप्रवजितः शिक्षाहः शैक्षः। रोगादिक्लिष्टशरीरो ग्लानः। साधर्मिकाः समानधर्मिणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चन्द्रादि । गच्छस्त्वेकाचार्य प्रणेयः साधुसमूहः । कुलसमुदायो गणः कोटिकादिः। सङ्घः साधुसाध्वीश्रावकश्राविकासमुदायः, परमार्थतस्तु ये ज्ञानदर्शनचरणगुणेषु व्यवस्थितास्तेषां समुदाय एव सङ्घो न तु नाममात्राणां श्रमणादीनामिति । एषां पूर्वोक्तानामाचार्यादीनां अन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिभिर्धर्मसाधन - >卐
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy