________________
श्रीनवतत्त्व
सुमङ्गला
टीकायां
॥ १११ ॥
V
M
ईनकरणमलपूरणानि क्रियन्ते, चतुर्थे तु शल्यकर्षण मर्दनमलपूरणरुधिरगालनानि वेदनापहारार्थं क्रियन्ते, पञ्चमे तु गाढतरावगाढशल्योद्धरणादि, ततो गमनादिचेष्टा निवार्यते, षष्ठे हितमितभोज्यभोजनोऽभोजनो वा शल्योद्धारानन्तरं भवति, सप्तमे शल्योद्धारानन्तरं भवति, सप्तमे शल्योद्धारानन्तरं यावच्छल्येन मांसादिदूषितं तावत् छिद्यते, गोनसभक्षितादौ पादवल्मी के वा पूर्वोक्तक्रियाभिरनुपशमात् शेषाङ्गरक्षणार्थं अस्थ्ना सहाङ्गच्छेदो विधीयते । एवं द्रव्यवणदृष्टान्तेन मूलोत्तरगुणरूपस्य चारित्र पुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीय इति । एतद्दशविधमपि प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुध्यर्थं दीयते आचर्यते च । प्रायश्चित्त5 फलं तु प्रमाददोषव्युदासभावप्रसादनैः शल्यानवस्थाव्यावृत्तिमर्यादात्यागसंयमदार्व्याराधनादिकं समवसेयम् । उक्तञ्चः'पावं छिंदइ जम्हा, पायच्छित्तं ति भण्णई तेणं' पाएण वावि चित्तं, सोहयति तेण पच्छित्तं ' ॥ २ ॥
A
品
A
अथ विनयमाह; — विनयते क्षिप्यतेऽष्टप्रकारकं कर्मानेनेति विनयः स चतुर्धा - ज्ञानदर्शनचारित्रोपचारभेदात्, तत्र A सबहुमानं ज्ञानग्रहणाऽभ्यासादि ज्ञानविनयः । सामायिकादौ लोकबिन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशितपदार्थाऽन्यथात्वासम्भवात् निशङ्कितत्त्वादिना तत्त्वार्थश्रद्धा दर्शनविनयः । सामायिकादिचारित्रस्वरूप श्रद्धानपूर्वकं अनुष्ठानविधिना च प्ररूपणमित्येष चारित्रविनयः चारित्रवतश्चारित्रे समाहितचित्ततेत्यर्थः । सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेषु आचार्यादिषु प्रत्यक्षेषु सत्सु अभ्युत्थानाभिगमनाऽञ्जलिकरणादि उपचारविनयः, परोक्षेष्वपि कायवाङ्मनाभिरञ्जलिकरणगुणसंकीर्त्तनानुस्मरणादिरुपचारविनय इति ॥
品
T
<!
NLSA
निर्जरातवे
विनयः ॥
॥१११॥