SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 5555555 ( A उपयुक्तेन गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्धं विवेकार्हमिति ४ ॥ व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमनसावद्यस्वप्नदर्शननौसन्तरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः । तथाविधदोषसद्भावे आलोचनायां दशविंशतिसंख्याकलोकोद्योतकरप्रमुखकायोत्सर्गप्रदानं चित्तविशुद्ध्यर्थमिति भावः ५ ॥ तपस्तु छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित्तपसा विशुद्धिर्भवति तत्तद्देयमासेवनीयं च ६ ।। छेदस्तपसा, दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् ७ ॥ मूलं महाव्रतानां मूलत आरोपणं ८ ॥ तथा अवस्थाप्यत इत्यवस्थाप्यस्तनिषेधादनवस्थाप्यस्तस्य भावोऽनवस्थाप्यता, दुष्टतरपरिणामस्य अकृततपोविशेषस्य व्रतानामारोपणम् येन पुनस्साघर्मिकादिस्तेयप्रहारादिप्रतिसेवितेन उच्थापनाया अप्ययोग्यः किञ्चित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्टं तपश्चरणं भवति, पश्चाच्च चीर्णतपस्तद्दोषात् परतो व्रतेषु स्थाप्यत इति विशिष्टकालं यावदुपस्थापयितुमयोग्यत्वादनवस्थाप्य इत्यर्थः । परस्परेण पुरुषयोर्वेदविकारकरणं, पञ्चमनिद्रावशवर्त्तत्वम्, कषायतो विषयतश्च क्रमेण राजवधराजदारसेवाप्रमुखदुष्टातिकरणं, तीर्थकराद्याशातनाकरणं चेत्यादिदुष्टतमपरिणामे सति समयोक्तेन चतुर्थादिना तपसा षण्मासादिना द्वादशवर्षान्तेन कालेन अतिचारपारं गच्छति, ततश्चाऽतिचारपारगमनाऽनन्तरं राजप्रतिबोधादिप्रवचनप्रभावनातः प्रव्राज्यते नान्यथेति पाराश्चितप्रायश्चितम् | तत्वार्थादौ अनवस्थाप्यपाराश्चितयोरेकविषयत्वेन संख्यातच्चादालोचनादिनव भेदाः प्रायश्चित्तस्य । एतच्च छेदपर्यन्तं प्रायश्चितं व्रणचिकित्सातुल्यं पूर्वसूरिभिरभिहितं, तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुधियते, न तत्र व्रणस्य मर्दनं विधीयते शल्याल्पत्वेन व्रणस्याल्पच्चात्, द्वितीये तु लग्नोद्धृतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते, तृतीये तु दूरतरगतशल्ये शल्योद्धारम UA5N5OSALS
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy