________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥११॥
निर्जरातत्त्वे प्रायश्चित्तमेदाः ॥
izyg>卐卐-''->)
पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गो वि अ, अभितरओ तवो होइ ॥३६॥ ___टीका; 'पायच्छित्तं' इति, प्रायश्चित्तं, विनयः, वैयावृत्त्य, तथा स्वाध्यायः, ध्यानं उत्सर्गश्चेति, पइमेदमिन्न आभ्यन्तरं तपो भवतीति गाथाक्षरार्थः । अथ प्रत्येकं व्याख्यायते;-मूलोत्तरगुणेषु स्वल्पोऽप्यतिचारो चित्तं मलिनयतीति तत्प्रकाशनाय तच्छुद्ध्यर्थं प्रायश्चित्तम्, प्रकर्षण अयते गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकः, तेन विचिन्त्यते स्मयतेऽतिचारविशुद्ध्यर्थमिति निरुक्तात् प्रायश्चित्तमनुष्ठानविशेषः । अथवा प्रायो बाहुल्येन व्रतातिक्रमं चेतसि सञ्जानीते चेतश्च न पुनराचरतीत्यतः प्रायश्चित्तम्, अथवा प्रायोऽपराध उच्यते स येन चेतति विशुध्यति तत् प्रायश्चित्तम् 'चिती संज्ञानविशुद्धयोः' इति वचनात् । तञ्च दशविधम्-आलोचनम्, प्रतिक्रमणम् , मिश्रम् , विवेकः, व्युत्सर्गः, तपः, छेदः, मूलम् , अनवस्थाप्यता, पाराश्चिकमिति । तत्रालोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम् , तच्चाऽऽसेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च, आसेवनानुलोम्यं येन क्रमेणातिचार आसेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम् , प्रायश्चित्तानुलोम्यं च गीतार्थस्य शिष्यस्य भवति, स हि पञ्चक-दशक-पञ्चदशकक्रमेण प्रायश्चित्तानि गुरुलध्वपराधानुरूपाणि विज्ञाय योऽपराधो गुरुस्तं तं प्रथममालोचयति, पश्चाल्लघु लघुतरं च १॥अतिचारामिमुख्यपरिहारेण प्रतीपं क्रमणमपसरणं प्रतिक्रमणं, मिथ्यादुष्कृतसंयुक्तेन पश्चात्तापेन 'पुनरेवं न करिष्यामि' इति प्रत्याख्यानम् २॥ प्राग्व्याख्यातमालोचनं प्रतिक्रमणश्चेतदुभयं | यत्र तन्मिश्र, प्रागालोचनं पश्चाद्गुरुसन्दिष्टस्य प्रतिक्रमणम् । एतच्चोभयं प्रायश्चित्तं सम्भ्रमभयातुरापत्सहसाऽनाभोगानात्मवशगतस्य दुष्टचिन्तितभाषणचेष्टावतश्च विहितम् ३॥ सम्प्रति विवेकप्रायश्चित्तावसरः-एष विवेकः संसक्तानपानोपकरणादिषु भवति, |
43zमर
॥११०॥