SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ iz 5 > 55-55-5 > 5 A V A T T तपश्च, तत्र प्रणिधानादिगमनमन्तरेण कर्म्मक्षयः स्थितिक्षयात्, ज्ञानावारकदर्शनावारकान्तरायकर्म्मणां त्रिंशत्सागरोपमकोटीकोट्यः, मोहनीयस्य सप्ततिकोटीकोट्य, नामगोत्रयोविंशतिसागरोपमकोटीकोट्यः, आयुषस्त्रयस्त्रिंशत्सागरोपमाणीति स्थितिप्रमाणं जैनागमे सुविख्यातं, तत्तत्कर्म्मणां प्रणिधानमन्तरेण स्थितिक्षयात्कर्म्मविनाशः स्फुटमिदं । तथा अपरं कर्मक्षपणार्थमर्हता दर्शितं तपः, तच्च द्विविधं, आभ्यन्तरं बाह्यं च, एकैकं चाऽपि षड्भेदम्, लोके परसमयेषु च प्रथितं यत्तद्बाह्यं तपः । अभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राह्यम् । तथा उभयमप्येतदागोपालाङ्गनादिप्रसिद्धमशुभकर्म्मक्षपणकारीति । रात्रावभोजनं चैकभोजनं निष्प्रतिक्रियत्त्वं च रोमनखधारणं वृक्षमूलवीरासनादिकरणं भिक्षार्थमप्रतिबद्ध मटनमाजीवितात् भूकाष्ठशय्यासेवन- A मित्येवमादयः कायस्य क्लेशाः प्रसह्यन्ते ननु सर्वैरपि पाषण्डिभिः । कायक्लेशस्य गुणाः प्रभावना ध्यानदार्व्यञ्च । ततश्चैवं- 5 प्रमाणयतो मायासूनवीयस्य ' आर्हतानामात्मसंतापनाद्युपक्रमविशेषवैयर्थ्यम् इति लोकविरोधिनी प्रतिज्ञा । लोके N स्वविगानतोऽनशनादितपः प्रसिद्धं कर्म्मक्षयकृत्, तदपह्नवानस्य परिस्फुट एव लोकविरोधः । कालविशेषाश्रयणेन नीरुजस्यापि अशनप्रतिषेधवृक्षमूलासेवित्त्वादिकायक्लेशलक्षणं तपः स्वागमेऽभ्युपेतमिति, अतस्तपोऽकिञ्चित्करमिति स्वागमविरोधः । तथा सर्वज्ञप्रणीतागमानुसारिलोचमौण्ड्यातापनादिकः कायक्लेशः प्रतिविशिष्टेष्टफलः आगमचोदितत्त्वे सति कायक्लेशत्वाद् वृक्षमूलासेवित्वनिष्प्रतिक्रियादिवत् । अपि च सोपक्रमनिरुपक्रमभेदभिन्नकर्म्मणां मध्ये करणसाध्यसोपक्रमकर्म्मणां प्रणिधानलक्षणेन तपसा क्षयोऽपि साध्यः कैश्चित्तु ' तवसा निकाइयाणं पि' इति वचनान्निरुपक्रमाणामपि क्षय इष्ट इत्यनेन तपसः साफल्यं सिध्यतीत्यलमतिचर्चया ॥ अथाऽभ्यन्तरं तपो व्याचष्टेः L A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy