________________
zh5> 55
श्रीनवतत्त्व
इत्थं षट्प्रकारं बाह्यं तपः बाह्यत्वञ्च बाह्यद्रव्यापेक्षत्वात् परप्रत्यक्षत्वात् कुतीर्थिकैर्गृहस्थैश्च कार्य्यत्वादिति । ननु सुमङ्गला- किं पुनरितो बाह्यतपसः फलमवाप्यत इत्युच्यतेः — अस्मात् षड्विधादपि बाह्यात्तपसः सङ्गत्यागः शरीरलाघवं इन्द्रियटीकायांविजयः संयमरक्षणं कर्म्मनिर्जरा चेत्यनेकविधं फलमासाद्यते । तत्र निःसङ्गत्त्वं बाह्याऽभ्यन्तरोपधिष्वनभिष्वङ्गो निर्ममता । प्रतिदिनमतिमात्राहारोपयोगात् प्रणीताहारोपयोगाच्च शरीरस्य गौरवं ततश्च मासकल्पविहारित्वायोग्यता, तद्वर्जनात्तु शकटाभ्यञ्जनवदुपयोगाद् वा शरीरलाघवमुपजायते, ततश्चाऽप्रणीतशरीरस्योन्मादानुद्रेकादिन्द्रियविजयः, भक्तपानार्थमहिण्डमानस्य चर्याजनितजन्तूपरोधाभावात् संयमरक्षणं निःसङ्गादिगुणयोगादशनादितपोनुतिष्ठतः शुभध्यानव्यवस्थितस्य कर्मनिर्जरणमवश्यं भवतीति बाह्यतपोऽपि मुमुक्षुभिः स्वीकर्त्तव्य इति ॥
॥१०९ ॥
T
अत्र केचिन्मोहान्धतमसो मायासूनवीया एवमाचक्षते,—यदातापनशिरोलुञ्चनाऽनशनादिकायक्लेशोपक्रमेण न कर्म्मविकच्छेदो भवति, युक्त्या चैनमर्थं प्रसाधयन्ति, ते चैवमाहुः
आतापनशिरोलुञ्चनप्रमुखकायक्लेशोपक्रमेण पूर्वबद्धं कर्म्म उदयप्राप्तं सत् कायक्लेशद्वारा यदि क्षयमाप्नोति तदाऽऽतापनादियन्नो व्यर्थः यतो यत्कर्म्मबद्धं तत्प्रयत्नेन विनापि पाककाले स्वानुभवं प्रदर्शयिष्यति तथास्वाभाव्यात्कर्म्मणः, अथवा बद्धकर्म्मोदयाभावस्तदा कस्य कर्म्मणः क्षयार्थ अनशनप्रमुखकायक्लेशसमारम्भः १ सति कर्म्मणि तस्य क्षयः संभाव्यः, न च वाच्यं विजातीयकम्र्म्मक्षपणार्थं आतापनाद्युपक्रम इति, यतोऽनुभूयमानस्यैव क्षयो नेतरस्य तस्मादातापनाऽनशनशिरोलुञ्चनप्रभृतिकायक्लेशप्रक्रमस्य वैयर्थ्यमिति । अत्रोच्यते ;- द्विविधः कर्म्मपरिपाकहेतुर्भगवद्भिरुक्तः, स्थितिक्षयः
V
A
55-5> <
S
USWAZ<_<
निर्जरातवे
बाह्यतपो
मेदाः ॥
॥१०९॥