________________
卐म卐<397
विलोकनवत् प्रत्याख्येयाः, इत्थं च रसपरित्यागलक्षणं विशिष्टं तपः॥४॥
अथ कायक्लेशः, कायः शरीरं तस्य क्लेशो बाधनमित्यर्थः । संसार्यवस्थायां कायाऽऽत्मनोरमेदोऽन्योऽन्यानुगतत्त्वात्तयोः क्षीरोदकादेवि, अतः कायबाधायामात्मनो बाधाऽवश्यंभाविनी, एकत्त्वपरिणतेश्च विना संसार्यात्मनः सुखदुःखाभाव एव स्यात्, एवमात्मनः कायद्वारेण क्लेशोत्पत्तिरिति कायक्लेशः, आगमानुसारिणी सम्यक्क्लेशोत्पत्तिनिर्जरायै न्याय्या, तथा चोक्तं दशवेंकालिके-'देहदुक्खं महफलम्' इति । स च कायक्लेश आगमेऽनेकप्रकारेणोपन्यस्तो विशिष्टाऽऽसनकरणेनाप्रतिकर्मशरीरत्वकेशोल्लुश्चनादिना । ननु परीषहेभ्यः कोऽस्य विशेषः ? उच्यते; स्वकृतक्लेशानुभवरूपःकायक्लेशः, परीषहास्तु स्वपरकृतक्लेशरूपा इति विशेषः ॥५॥
सम्यक् प्रकारेण लीयते स्थीयते ज्ञानदर्शनचारित्रगुणेष्वात्माऽनयेति संलीनता, सा चेन्द्रिय-कषाय-योग-विविक्तचर्याभेदाच्चतुर्विधा, तत्र प्राप्तेष्विन्द्रियविषयेषु अरक्तद्विष्टेन भवितव्यमिति इन्द्रियसंलीनता। क्रोधस्य तावदुदयनिरोधः प्राप्तोदयस्य च वैफल्यापादनम् , एवं शेषकषायाणामपीति कषायसंलीनता । तथा अकुशलमनोनिरोधः, कुशलचित्तोदीरणं वा, एवं वागपि वाच्या, कायव्यापारस्तु समुत्पन्नप्रयोजनस्य यत्नवतः संलीनताव्यपदेशमश्नुते, विना तु प्रयोजनेन निश्चलासनमेव श्रेय इति योगसंलीनता । एकान्तेऽनाबाघेसंसक्ते स्त्रीपशुपण्डकवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् स्थानेऽवस्थान विविक्तचर्यासंलीनतेति । सान्तःकरणानीन्द्रियाणि संयम्य क्रोधादिकदम्बकं निरुध्य समाध्यर्थ विविक्तं शय्यासनमासेवमानस्य संलीनता भवतीति तात्पर्यार्थः॥६॥
50Eyzs0g-卐न
१९