________________
z
भीनवतत्व समालाटीकायां
निर्जरातचे वायतपोमेदाः ॥
॥१०८॥
y5gy->).
त्यागः । तत्र मचं गौडपिष्टद्राक्षावर्जुरादिद्रव्यसम्भारोपजातमदसामर्थ्य विषगरादिवजीवमस्वतन्त्रं करोति, अस्वस्थ तद्वशः कार्याकार्यविवेकशून्यो भ्रष्टस्मृतिसंस्कारो मर्हितमाचरति, अतस्सर्वथा तत्परित्यागः। मांस तु प्राणिशरीरावयवः, तच्च प्राणव्यपरोपणमन्तरेण दुष्प्रापम्, प्राणातिपातश्च स्वशरीरसम्भूतदुःखानुमानेन न शक्यः प्राज्ञेन कर्तुं, स्वयं न करोति अन्येन कार्यत इत्येतदपि न, कुर्वन् न चाऽनुमोदनीयः, एवं कृतकारितानुमतिभिः परिहारः सर्वथा मुमुक्षोरुपदिष्टः शासनप्रणायिना सर्वज्ञेनेति । अथ यत् कृतकारितानुमतिपरिशुद्धमोदनादिवत् तद किमिति न वर्ण्यते ? तदपि गार्थ्यपरिहारार्थ यतयः परिहरन्त्येव द्रव्यादिचतुष्टयापेक्षाः, नर्नु चैवमोदनादयोऽपि गायपरिहारिणा त्याज्याः १ नैतदेवम् , मांसरसो हि सर्वरसातिशायी वृष्यतमश्च किल, तत्र चाऽवश्यंभावि गाय॑म् , न चैवमोदनादयः। ननु च क्षीरदधिघृतादयोऽपि रसा वृष्या एवेति, उच्यतेतेऽपि हि मुमुक्षोः सर्वदा नैवानुज्ञाता भगवद्भिः, यदा कदाप्यनुज्ञातास्तदापि मात्रया तप्तायोभाजनप्रक्षिप्तघृतादिविन्दुक्षयवन्न चरणबाधायै प्रत्यलाः, लोकविरुद्धमपि मांशाशित्त्वमतो सर्वथा हेयमिति । मधु त्रिप्रकारम्-माक्षिकं कौत्तिकं भ्रामरं च, एतदपि प्राण्युपघातनिष्पन्नमेवेति परिहार्यम् । गोमहिष्यजाविकानां नवनीतं चतुर्धा, स चापि वृष्यो रस इति परिहार्यः । दुग्धविकृतिः पञ्चप्रकारा गोमहिष्यजाविकोष्ट्रीणाम् । दधिविकृतिः करभीवर्जानां चतुःप्रकारा । घृतविकृतिर्दधिविकृतिवच्चतुर्धेव । तैलविकृतिरपि चतुर्विधा, तिलाऽतसीसिद्धार्थककुसुम्भकारुयानि तैलानि । इक्षुविकाराऽऽत्मिका च गुडविकृतिः । अवगायकविकृतिरपूपादिका आदिग्रहणात् घृताधवगाहनिष्पन्नानि दशमी प्रमुखद्रव्याणि ज्ञेयानि । एताः पूर्वोक्ता निखिला अपि विकतयश्चित्तविकारहेतुभूतत्त्वान्न सर्वदाऽभ्यवहार्याः, विकारजनकत्त्वाद्विकृतय इत्यन्वर्थसंज्ञा तासां, अतो मुमुक्षुणा ललनाङ्गप्रत्यङ्ग
॥१०८॥