________________
9259755-55-
तस्य भक्तप्रत्याख्यानमनशनमिति ।।
ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव औनोदय्यम् , तच्च चतुर्दा-अल्पाहारौनोदर्यम् , उपाधौनोदर्यम . अधौनोटीस प्रमाणप्राप्तात किश्चिनौनोदर्यम् च, तत्र पुंसामाहारः द्वात्रिंशत्कवलप्रमाणः, कवलश्चोत्कृष्टापकृष्टौ वर्जयित्वा मध्यम इह गृह्यते. स चाऽविकतस्वमखविवरप्रमाणः। तत्र कवलाऽष्टकाऽभ्यवहारोऽल्पाहारीनोदय्यम् , अधस्य समीपमुपाधं द्वादशकवलाः, यत: कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो द्वादशकवला उपा(नोदर्यम् , पोडशकवला अर्धानोदर्यम् , प्रमाणप्राप्त आहारो द्वात्रिंशत्कवलाः स चैकादिकवलैरूनश्चतुर्विंशतिकवलान् यावत् प्रमाणप्राप्तात् किश्चिदूनौनोदर्यम् , चतुर्विधेऽप्यस्मिन् एकैककवलहानेन बहूनि स्थानानि जायन्ते, सर्वाणि चामून्यानोदय्यविशेषाः। योषितस्त्वष्टाविंशतिकवलाहारप्रमाणम, यदाहः'बत्तीसं खल कवला आहारो कच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीसं भवे कवला'॥१॥ तस्या अपि पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् ॥ २ ॥
तथा वय॑ते यया सा बृत्तिः-भैक्षं तस्याः संक्षेपः परिगणनं वा, आगमविहितोऽभिग्रहो दत्तिप्रमुखभिक्षाणां वा परिगणनमित्यर्थः, एतच्च दत्तिपरिमाणरूपं एकद्वित्र्याचगारनियमो रथ्याग्रामाऽर्धग्रामनियमच, द्रव्यक्षेत्रकालभावाभिग्रहाणामत्रवान्तर्भावः ॥ ३ ॥
तथा रस्यन्ते स्वाद्यन्तेऽतिशयेनेति रसाः, तेषां त्यागो रसत्यागः, अथवा रसानां मतुप्लोपाद् विशिष्टरसवतां वृष्याणां विकारहेतूनां अत एव विकृतिशब्दवाच्यानां मद्यमांसमधुनवनीतानां दुग्धदधिघृततैलगुडावगाह्यादीनां च त्यागो वर्जनं रस
509555750
-5