SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ भीनवतत्त्व सुमङ्गलाटीकायां निर्जरातत्त्वे बाह्यतपोभेदाः॥ ॥१०७॥ अथ प्रतिज्ञातद्वादशविधतपोलक्षणां निर्जरां विधानतो वक्तुकामस्सूत्रकारः प्रथमं बाह्यतपोभेदानाचष्टेअणसणमूणोयरिआ, वित्तिसंखेवणं रसच्चाओ। कायकिलेसो संली-णया य बज्झो तवो होई॥३५॥ ___टीकाः- अणसण' इत्यादि, अनशनं ऊनोदरिका वृत्तिसंक्षेपो रसत्यागः कायक्लेशः संलीनता चेत्येताः षड् बाह्यतपोभेदा भवन्तीत्यर्थः । अथ प्रत्येक व्याख्यायते;-अशनमाहारस्तत्परित्यागोऽनशनम् , तद् द्विधा इत्वरं यावजीविकं च । इत्त्वरं नमस्कारसहितादि श्रीमन्महावीरतीर्थे षण्मासपर्यन्तम् , श्रीनामेन्यतीर्थे तु संवत्सरपर्यन्तम् , मध्यद्वाविंशतितीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । यावजीविकं तु पादपोपगमनेङ्गिनीभक्तप्रत्याख्यानभेदात् त्रिविधम् । तत्र पादपोगमनं द्विधा-सव्याघातमव्याघातं च, तत्र सतोऽप्यायुषः समुपजातव्याधिविधुरेणोत्पन्नमहावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु प्रव्रज्याशिक्षापदादिक्रमेण जराजर्जरितविग्रहः करोति यदुपहितचतुर्विधाऽऽहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रित्य पादप इवैकेन पार्श्वेन निपत्याऽपरिस्पन्दस्तावदास्ते प्रशस्तध्यानव्यापृतान्तःकरणो यावदुत्क्रान्ताः प्राणाः, तदेतत् पादपोगमनाऽऽख्यं द्विविधमनशनम् । इङ्गिनी श्रुतविहितक्रियाविशेषस्तद्विशिष्टं मरणमिङ्गिनीमरणम् , अयं हि प्रव्रज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवगम्य आत्तनिजोपकरणः स्थावरजङ्गमविवर्जितस्थण्डिलशायी एकाकी कृतचतुर्विधाहारप्रत्याख्यान: छायात उष्णं उष्णाच्छायां सामन् सचेष्टः सम्यगूज्ञानपरायणः प्राणान् जहाति, एतदिङ्गिनीमरणमपरिकर्मपूर्वकं भवति । यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्त्वस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्ग्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादिकुर्वाणः समाधिना कालं करोति, ॥१०७॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy