SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ izs卐 S - कथं द्विधा परिपाकः ? यत उक्तरीत्या समानकालबद्धानां समस्थितिरसानां कर्माणूनामपि द्विधा परिपाकवत्त्वं समामोति तत्कथं ?, सत्यं, यद्यपि बन्धसादृश्यं तथापि विपाकमेदे न विरोधः, यथा वृक्षैकशाखानिष्पन्नानां फलानां द्विधा पाको दृष्टः, पलालच्छन्नानां फलानां यथा शीघ्रपाकित्त्वं न तथा वृक्षस्थानां दृश्यते, एवं सङ्क्रमोद्वर्तनापवर्त्तनोदीरणादिकरणसाध्यानां कर्मपरमाणूनां द्विविधे पाके न विरोध इति ॥ अथ गाथापदानि विवियन्ते,-'बारसविहं तवो निजरा' इत्यादि, द्वादशविधं तपो निर्जरा, वक्ष्यमाणषट्पदभेदभित्रबाह्याऽभ्यन्तरतपसा निजरा भवतीत्यर्थः । ननु 'चउदस चउदस' इति गाथायां निर्जरा द्वादशभेदभित्रोक्ता, अत्र या द्वादशभेदसंख्या सा तपसो न तु निर्जरायाः, अस्तु सकामाऽकामभेदाभ्यां पूर्वोक्तप्रकारेण द्विविधत्त्वं तस्याः, कथं द्वादशविधावच्छिमत्वं', उच्यते यद्यपि द्वादशमेदास्तु तपसस्तथापि निखिलास्ते तपोभेदाः ( सकाम) निर्जरायां हेतुत्वेन भवन्ति, अतः कारणे कार्यारोपाद् ये तपोभेदास्त एव निर्जरायाः, नाव काचिद्विप्रतिपत्तिः, घृतमायुरित्यादि दर्शनात् । ____ अथ 'बारसविहं ' इति प्रकृतगाथाऽनन्तरं ' अणसणमणोअरिया' 'पायच्छित्तं विणओ' इति गाथाद्वयं व्याख्याय वक्ष्यमाणबन्धतत्त्वसम्बन्धं प्रदर्शयितुं प्रस्तुतगाथायां निर्जरालक्षणेन साकमेव बन्धतत्वमपि विधानतः सूत्रकारः प्रतिपादयति, तच्चैवम् -' बन्धो चउविगप्पो य, पयडिठिड अणुभागो पएसमेएहिं नायव्यो' इति, बन्धो वक्ष्यमाणस्वरूपश्चतुर्विकल्पः प्रकृति-स्थित्यनुभाग-प्रदेश देश्चतुःप्रकार इत्यर्थः। किंस्वरूपो बन्धः, किंलक्षणाश्च तस्य प्रकृतिबन्धादिभेदा इत्यादि निखिलमग्रे वक्ष्याम इति ॥ 55525059- <s > <
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy