SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ . निर्जरासकामा श्रीनवतत्त्वसुमङ्गलाटीकायां॥१०६॥ कामनिर्ज >卐->卐 y卐z! >卐33 | राचम् ॥ त्रिविधया वेदनया, मनुष्याश्च क्षुत्पिपासाव्याधिदारिद्यादिना, देवाश्च पराभियोगकिल्बिषत्वादिनाऽसद्वेद्यं कर्माऽनुभूय स्वप्रदेदेशेभ्यः परिशाटयन्ति, इत्येषामकामनिर्जरा, निर्जरायां सत्यामपि निर्जरायाः परम्परस्य मोक्षफलस्य नावाप्तिरित्यकामा । इयमेव द्विभेदभिन्ना निर्जरा तत्त्वार्थादिषु संज्ञान्तरेण व्याख्याता, तद्यथा;-अबुद्धिपूर्वा कुशलमूला च, तत्र बुद्धिः कर्म शाटयामीत्येवलक्षणा पूर्वा आदौ यस्यामिति बुद्धिपूर्वा, न बुद्धिपूर्वा अबुद्धिपूर्वा, इयमबुद्धिपूर्वा नरकादिषु कर्मपरिशाटलक्षणानिर्जराऽवद्यतोऽनुचिन्तनीया, नहि तादृशा निर्जरया मोक्षः शक्योऽधिपन्तुमिति, यस्मादुपभुज्याऽपि तत् कर्मफलं पुनर्बन्धकत्वात् पुनः संसृतावेव भ्रमितव्यम् । यतोऽबुद्धिपूर्विकायां निर्जरायां नहि नारकादिभिः तपः परीषहजयो वा मनीषित इति । कर्म शाटयामि तपसा परीषहजयेण वेत्यात्मिका बुद्धिः पूर्वा यस्यां सा कुशलमूलाभिधाना, कुशलं क्रमेण महानन्दपदप्राप्तिलक्षणं मूलं यस्या इत्यर्थः, सा च कुशलमूलाभिधाना शुभानुबन्धिनी निरनुबन्धिनी वा, यतस्तादृशो विपाकः शुभमनुबध्नाति निर्जरां च विधत्ते, शुभाऽनुबन्धश्च अमरेषु तावदिन्द्रसामानिकादिप्राप्तिलक्षणः, मनुजेषु च चक्रवर्तिबलदेवमहामण्डलिकादिपदानि लब्ध्वा पुन्यानुबन्धिपुन्यक्त्वात् पारम्पर्येण मुक्तिलाभस्वरूपः तपःपरीषहजयकृतो विपाकः सकलकर्मक्षयलक्षणः निरनुबन्धत्त्वात् साक्षान्मोक्षायैव जायते । ननु च यदि बुद्धिपूर्वा शुभाऽनुबन्धिनी निर्जरा देवादिफलप्रदायिनी तत आगमेन सह विरोधः 'नो इह लोगट्टियाए तवमहिदुखा' इत्यादि दशवैकालिकवचनप्रामाण्यात्, भण्यते, नैवं, यतो न मुमुक्षुणा देवादिफलमिष्टं, स हि तु मोक्षार्थमेव घटते, यदन्तरालिकं फलं देवत्वादि तदानुषङ्गिकम् इक्षुवनसेके तृणादिसेकवत, मनीषितं तु तेन तपःपरीषहजयाभ्यां मोक्षः प्राप्य इति । ननु सकामाऽकामभेदाभ्यां क्षयमुपगतानां कर्मणां सत्यपि बन्धसादृश्ये > <3- ॥१०६॥ > >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy