SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ in z < y >卐 -卐 स्वजातीयप्रकृतेः स्थित्या समानां स्थितिं विधाय तत्समस्थितिकायाः स्वजातीयपरप्रकृतेः विपाकोदयेन सहोपभुज्यन्ते । केचित्तु प्रदेशोदयमापनेषु कर्मसु केवलं प्रदेशानामुदय इति प्रदेशोदय इति विग्रहमाश्रित्य रसाभावं मन्यन्ते परमसङ्गतं तद् यतःप्रदेशोदयावस्थायामपि रससद्भावोऽवश्यं विद्यते, अन्यथा क्षयोपशमसम्यक्त्वाऽवस्थायां मिथ्यात्वमोहनीयस्य प्रदेशोदयः, सम्यक्त्वमोहनीयस्य च विपाकोदयः कथं संघटते ? न च सम्यक्त्वमोहनीयस्य विपाकोदयान् मिथ्याचमोहनीयस्य प्रदेशोदयो भिन्नकालीनः, यदा सम्यक्त्वमोहनीयस्य विपाकोदयः तदेव मिथ्यात्वमोहनीयस्य प्रदेशोदयः, तस्यां चाऽवस्थायां रसो विद्यते "तं कालं बीयठिई, तिहाणुभागेण देसघाइपथ । सम्मत्तं समिस्सं मिच्छत्तं सव्वघाईओ"॥१॥ इति कर्मप्रकृतिवचनात । यत्स्वरूपेण या प्रकृतिबद्धा तत्स्वरूपेण स्वविपाकमप्रदश्ये उदयवत्या समानकालस्थितिकया प्रकृत्या सह यद्वेदनं स प्रदेशोदय इत्याशयः, अत्र बहुचर्चा, परमप्रस्तुतत्त्वाद् विस्तरभयाच न चर्च्यते, जिज्ञासुभिः कर्मप्रकृतिपश्चसङ्ग्रहादयो विलोकनीयाः। अथ प्रकृतमनुस्रियते-एवं पूर्वोक्तरीत्या प्रदेशोदयविपाकोदयाभ्यां जायामाना निर्जरा सकामाऽकामभेदाभ्यां द्विविधा, यद्यप्युभयत्र कर्मपरिशाटस्तथापि वक्ष्यमाणरीत्या कारणभेदात् कार्यभेदो ज्ञेयः। तत्र सह कामेन वर्त्तत इति सकामा, 'अनेनाऽनुष्ठानेन तपसा वा मे कर्मक्षयो भूयाद्' इतिलक्षणाभिलाषा यस्यां सा सकामा सम्यग्दृष्टिदेशविरतसर्वविरतादीनाम् । अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा सम्यग्दृष्टिव्यतिरिक्तानामेकेन्द्रियादीनां विज्ञेया, तथाहि;-एकेन्द्रियाः पृथिव्यादयो बनस्पतिपर्यन्ताः शीतोष्णवर्षाजलाग्निशस्त्राद्यभिघातच्छेदभेदादिनाऽसवेद्यं कर्माऽनुभूय नीरसं कर्म स्वाऽsत्मप्रदेशेभ्यः परिशाटयन्ति, विकलेन्द्रियाश्च क्षुत्पिपासाशीतोष्णादिभिः पञ्चेन्द्रियतिर्यश्चश्व छेदभेददाहशस्त्रादिभिः, नारकाच -卐>5 gyzs05-5 < 卐
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy