SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्व सुमङ्गलाटीकायां <s>yz निर्जरातच्चे प्रदेशो दयः॥ ॥१०५॥ > - न्यगतित्रयस्य विपाकोदयमाश्रित्य रोधः, न चैकस्मिन् भवे द्वयोर्गत्योर्विपाकोदयेन भवितव्यमिति, एवमेकेन्द्रियजातेर्यदा विपाकोदयस्तदा शेषजातिचतुष्टयस्य विपाकोदयमपेक्ष्य रोधः। गुणप्रत्ययतो यथा-क्षयोपशमसम्यक्त्वावस्थायां मिथ्यात्वमोहनीयस्य विपाकोदयमनुलक्ष्य रोधः। उभयत्रापि यस्य विपाकोदयस्तं विनाऽन्येषां प्रदेशोदयः । असत्कल्पनया यथा शतसमयप्रमाणाया मनुजगतेर्विपाकोदयो वत्तते, अत्र यदोदयावलिकाप्रथमसमयवार्तिकर्माणवो विपाकोदयमायान्ति तदा तत्समकालमेव सत्तायां गतस्य विपाकोदयकालमप्राप्तस्यावशेषस्य गतित्रयस्याऽपि प्रथमसमयगता कम्र्माणवः स्वानुभागमप्रदश्ये पूर्वोक्तविपाकोदयवन्मनुजगतिप्रथमसमयगतकणुिभिस्सहोदयमायान्ति, अतस्तेषां त्रयाणां प्रदेशोदयो मनुजगतेश्च विपाको दयः, एवमन्यत्राप्यूह्यम् । एतेन सङ्क्रमादिभिः पतगृहप्रकृतिसमानपरिणामानन्तरं सङ्कमावलिकामतीत्य यथा सङ्क्रान्तप्रकृतीनामुदयो बन्धान्यरूपेण सञ्जायते न तथा प्रदेशोदयावस्थायाम् । न च क्षयोपशमसम्यक्त्वावस्थायां मिथ्यात्वमोहनीयस्य यत्र प्रदेशोदयस्तत्र सर्वस्वघात्यगुणघातनस्वभावानां मिथ्यात्वमोहनीयसर्वघातिरसस्पर्धकानां प्रदेशोदयेऽपि कथं नु जिनाज्ञारुचिवादिसम्यक्त्वगुणानामाविर्भाव इति वाच्यम् , तेषां सर्वघातिरसस्पर्धकप्रदेशानामध्यवसायविशेषेण मनाग्मन्दानुभावीकृतविरलवेद्यमानदेशघातिरसस्पर्धकेष्वन्तःप्रवेशितानां यथास्थितस्वबलप्रकटनासमर्थत्वात् सम्यक्त्वगुणाविर्भावे न काचिद्विप्रतिपत्तिः, प्रदेशोदयेन सह तद्गतरसस्य वेदनेऽपि रसस्य सूक्ष्मत्त्वात् , भक्षितैलाफलस्य कदल्यादिविकाराऽभाववदिति । गुणसङ्कमादिभिः सङ्क्रम्यमाणाः कर्मपरमाणवः सर्वथा यथा पर ( पतद्ग्रह) प्रकृतितया परिणमय्य पर (पतद्ग्रह) प्रकृतिव्यपदेशमश्नुवते, न तथा स्तिबुकसंक्रमेण सङ्क्रान्ताः कर्माणवः सर्वथा परप्रकृतित्त्वेन व्यपदिश्यन्ते, किन्तु स्वव्यपदेशं रक्षित्त्वैव प्रागेवोदयवती <3- ॥१०५॥ >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy