SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ टीका-'बारसविहं' त्ति-निर्जरा द्वादशविधा, सा च तपोलक्षणा 'अणसणमूणोयरिया' 'पायच्छित्तं विणओ' इत्यादि गाथाभ्यां वक्ष्यमाणस्वरूपा, बद्धानामेव कर्मापुद्गलानां निर्जरा आत्मप्रदेशेभ्यः परिशाटो नत्त्वबद्धानामिति कीदृशो बन्धः किंविकल्पक इति शिष्यपरिप्रश्नसमाधानार्थमाह-'बन्धो चउविगप्पो य'त्ति, आत्मप्रदेशैस्सह मिथ्यात्वादिनिमित्तोपात्तानां कर्मपरमाणूनां क्षीरनीरवद् वहथयापिण्डवद्वाऽभेदलक्षणसम्बन्धो बन्धः, स च चत्वारो विकल्पाः प्रकारा यस्येति चतुर्विकल्पः चतुर्भेदभिन्नः, के च ते चतुर्भेदा इत्याह-'पयइ' इत्यादि, प्रकृति-स्थिति अनुभाग-प्रदेशभेदैस्स बन्धो ज्ञातव्य इति गाथाऽक्षराथः॥ विस्तरार्थस्त्वयम्-निर्जरा नाम अनुभूतरसकर्मापुद्गलानामात्मप्रदेशेभ्यः क्रमेण परिशाट:, अयं च द्विधा भवति विपाकोदयतः प्रदेशोदयतश्च, तत्र विपाकोदयो रसोदयोऽनुभागोदय इति पर्यायाः, विपाकोदयो नाम मिथ्यात्वादिभिर्बन्धहेतुभिरुपचितानां बन्धकालसहचारिकषायलेश्याविशेषनियमितजघन्योत्कृष्टस्थितितीव्रमन्दानुभावानां योगानुसारसंगृहीतप्रदेशानां क्षीरनीरवदात्मसात्कृतानां कर्मपुद्गलानां स्वाभाविकेनाऽऽबाधाकालक्षयेणोदीरणाकरणेन वोदयावलिकाप्रविष्टानां रसोदयपूर्वकानुभवनं विपाकोदयः। प्रदेशोदयः स्तिबुकसङ्कमाऽपरपर्यायः-मन्दोदय इत्यर्थः। अनुदयप्राप्तायाः कर्मप्रकृतेर्यत्कर्मदलिक सजातीयप्रकृतावुदयप्राप्तायां समानकालस्थितौ सङ्कमयति सङ्कमय्य चानुभवति स प्रदेशाऽनुभवः, यथा मनुजगतावुदयप्राप्तायां शेष गतित्रयं, एकेन्द्रियजातौ शेषजातिचतुष्टयमित्यादि । ननु मनुजगतेरेकेन्द्रियजातेश्च यदा विपाकोदयस्तदा शेषस्य गतित्रयस्य जातिचतुष्टयस्य च प्रदेशोदय उक्त इति ज्ञातं परं तस्यैव गतित्रयस्य जातिचतुष्टयस्य च तदा कथं न विपाकोदयः । इति चेदुच्यते:-विपाकोदयो द्विधा निरुध्यते, भवप्रत्ययतो गुणप्रत्ययतश्च, भवप्रत्ययतो यथा मनुजगत्यां विपाकोदयवत्याम ins卐<sz90' -93 > <5-5
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy